हिन्दी पत्रकारिता लोकतंत्रस्य दृढा आधारशिला : प्रो. वंदना सिंहः
जौनपुरम्, 30 मईमासः (हि. स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थितस्य वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य जनसञ्चारपत्रकारिताविभागेन, कम्युनिकेशनटुडे जयपुरसंस्थया तथा भारतीविद्यापीठइन्स्टिट्यूटऑफकम्प्यूटरएप्लीकेशन्सएण्डमैनेजमेण्ट् नवदिल्लीसंस्थया सं
पत्रकारिता दिवस पर आयोजित बेबीनार कार्यक्रम में उपस्थित वक्ता एवं मुख्य अतिथि और कुलपति


जौनपुरम्, 30 मईमासः (हि. स.)। उत्तरप्रदेशस्य जौनपुरजनपदे स्थितस्य वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य जनसञ्चारपत्रकारिताविभागेन, कम्युनिकेशनटुडे जयपुरसंस्थया तथा भारतीविद्यापीठइन्स्टिट्यूटऑफकम्प्यूटरएप्लीकेशन्सएण्डमैनेजमेण्ट् नवदिल्लीसंस्थया संयुक्ततत्त्वावधानेन शनिवासरे हिन्दीपत्रकारिताविषयकौ द्वौ राष्ट्रियवेबिनारौ आयोजितौ। कार्यक्रमे देशस्य विभिन्नप्रदेशेभ्यः शिक्षकाः शोधार्थिनः विद्यार्थीजनाः मीडियाक्षेत्रस्य व्यावसायिकाश्च ऑनलाइनमाध्यमेन सहभागित्वं कृतवन्तः।

प्रथमा राष्ट्रियगोष्ठी “हिन्दीपत्रकारितायाः द्विशतवर्षाणि : परम्परा परिवर्तनं भविष्यं च” इति विषये आयोजितः। अध्यक्षतां कुर्वती विश्वविद्यालयस्य कुलपतिः प्रो. वन्दनासिंह उक्तवती यत् हिन्दीपत्रकारितायाः यात्रा ‘उदन्तमार्तण्ड’ इत्यस्मात् आरभ्य अद्य वैश्विकस्तरं प्राप्तवती अस्ति। एषा केवलं समाचारप्रसारणस्य माध्यमं नास्ति, अपितु लोकतान्त्रिकमूल्यानां संरक्षिका सामाजिकचेतनायाः संवाहिका च अभवत्। तया उक्तं यत् हिन्दीपत्रकारिता यावती सशक्ता विश्वसनीया च भविष्यति, तावदेव देशस्य लोकतन्त्रं सुदृढं भविष्यति।

मुख्यातिथिः वरिष्ठपत्रकारः श्रीनारायणतिवारी उक्तवान् यत् हिन्दीपत्रकारितया द्विशतवर्षेषु अनेकाः चुनौतयः सम्मुखीकृत्य अपि स्वविश्वसनीयता संरक्षिता। तेन उक्तं यत् कृत्रिमबुद्धिमत्तायाः एआई इत्यस्य युगे अपि मानवीयबौद्धिकक्षमतायाः कश्चन विकल्पः नास्ति तथा मुद्रितमाध्यमस्य विश्वसनीयता अद्यापि स्थिरा अस्ति।

मुख्यवक्ता प्रो. प्रमोदकुमारः पत्रकारितायां सकारात्मकरचनात्मकसामग्रीणां आवश्यकतायाः विषये बलं दत्त्वा उक्तवान् यत् अद्यतनः पाठकः समाधानपरकसार्थकसमाचारान् अधिकं महत्त्वं ददाति। अपरतः प्रो. एम.एन. होडा एआईजनितानां नवीनपरिस्थितीनां प्रति ध्यानम् आकर्षितवान्।

ततः अनन्तरम् आयोजितायां द्वितीयायां राष्ट्रियसंगोष्ठ्यां “नवसंततेः दृष्ट्या हिन्दीपत्रकारिता” इति विषये प्रो. हरीशकुमारः तथा प्रो. राघवेन्द्रमिश्रः हिन्दीपत्रकारितायाः परम्परायाः डिजिटलमाध्यमस्य वर्धमानप्रभावस्य वर्तमानपरिस्थितीनां भविष्यसंभावनानां च विषये विस्तरेण विचारान् प्रस्तुतवन्तौ। गोष्ठ्यां शोधपत्राणां प्रस्तुतीकरणम् अपि अभवत्।

आयोजनसचिवः विभागाध्यक्षश्च प्रो. मनोजमिश्रः सर्वेभ्यः अतिथिभ्यः प्रतिभागिभ्यश्च प्रति आभारं व्यक्तवान्। कार्यक्रमस्य सञ्चालनं प्रो. संजीवभनावत् कृतवान्, संयोजनं प्रियंकासिंह कृता तथा धन्यवादज्ञापनं डॉ. दिग्विजयसिंहराठौरः कृतवान्। कार्यक्रमस्य सफलायोजने जयन्तराठी पुष्पेन्द्रसचान डॉ. पृथ्वीसेंगर इत्यादयः आयोजनसमितेः सदस्याः विशेषं योगदानं दत्तवन्तः।----------

Hindusthan Samachar / Dheeraj Maithani