हिमाचल कैडर की पूर्व आईएएस उपमा चौधरी को बड़ी जिम्मेदारी, मेट्रोपोलिटन स्टॉक एक्सचेंज की चेयरपर्सन नियुक्त
शिमला, 30 मईमासः (हि.स.)। हिमाचल-प्रदेश-कैडर इत्यस्य सेवानिवृत्ता वरिष्ठ-आईएएस-अधिकारिणी उपमा-दादा-चौधरी मेट्रोपोलिटन्-स्टॉक्-एक्सचेञ्ज् (एमएसई) इत्यस्य गवर्निङ्ग्परिषदोऽध्यक्षा नियुक्ता अस्ति। भारतीय-प्रतिभूति-विनिमयपरिषदा (सेबी) तस्याः नियुक्ते
उपमा चौधरी


शिमला, 30 मईमासः (हि.स.)।

हिमाचल-प्रदेश-कैडर इत्यस्य सेवानिवृत्ता वरिष्ठ-आईएएस-अधिकारिणी उपमा-दादा-चौधरी मेट्रोपोलिटन्-स्टॉक्-एक्सचेञ्ज् (एमएसई) इत्यस्य गवर्निङ्ग्परिषदोऽध्यक्षा नियुक्ता अस्ति। भारतीय-प्रतिभूति-विनिमयपरिषदा (सेबी) तस्याः नियुक्तेः अनुमोदनं प्रदत्तम्। अस्याः नियुक्तेः सह सा भारतस्य मार्केट्-इन्फ्रास्ट्रक्चर्-इन्स्टिट्यूशन्स इत्येषु अध्यक्षा-पदं धारयन्ती एकमात्रा महिला जाता अस्ति। एमएसई देशस्य प्रमुख-स्टॉक्-एक्सचेञ्जेषु अन्तर्भवति तथा पूंजी-बाजारस्य विस्तारे तस्य महत्त्वपूर्णा भूमिका अस्ति।

३५-वर्षीयः प्रशासनिक-अनुभवः, एलबीएसएनएए इत्यस्य प्रथम-महिला-निदेशिका आसीत्

१९८३-तम-वर्षस्य हिमाचल-प्रदेश-कैडर इत्यस्य आईएएस-अधिकारिणी उपमा-चौधरी स्वस्य ३५-वर्षेभ्यः अधिके दीर्घे प्रशासनिक-जीवने केन्द्र-राज्य-शासनयोः अनेकाः महत्त्वपूर्णाः दायित्वानि निर्व्यूढवती। तया वित्त-, ग्रामीण-विकास-, शिक्षा-, उद्योग-, पर्यटन-, महिला-सशक्तिकरण- तथा सार्वजनिक-क्षेत्र-संशोधन-सम्बद्धेषु विविध-क्षेत्रेषु कार्यं कृतम्। वर्षे २०१६ तमे सा मसूरी-स्थितायाः लालबहादुर-शास्त्री-राष्ट्रिय-प्रशासन-अकादम्याः (एलबीएसएनएए) प्रथम-महिला-निदेशिका अभवत्। प्रशासनिक-प्रशिक्षण-क्षेत्रे तस्याः कार्यकालः विशेषरूपेण उल्लेखनीयः मन्यते। सा भारत-शासने युवा-कार्यक्रम-क्रीडा-मन्त्रालयस्य सचिवा आसीत् तथा अस्मात् पदात् एव वर्षे २०१९ तमे सेवानिवृत्ता अभवत्।

संयुक्त-राष्ट्र-संघे वैश्विक-मञ्चेषु च अपि निर्वाहिता महत्त्वपूर्णा भूमिका

उपमा-चौधर्याः अनुभवः केवलं भारतीय-प्रशासनिक-व्यवस्थायां सीमितः नासीत्। तया विश्व-व्यापार-संगठनम् (डब्ल्यूटीओ) सहितेषु अनेकषु अन्तरराष्ट्रीय-मञ्चेषु भारतस्य प्रतिनिधित्वं कृतम्। वर्षे २०१८ तः २०२१ पर्यन्तं सा संयुक्त-राष्ट्र-संघस्य कमेटी-ऑफ्-एक्सपर्ट्स्-ऑन्-पब्लिक्-एडमिनिस्ट्रेशन इत्यस्य सदस्यत्वं निर्वहितवती। तया संयुक्त-राष्ट्र-लोक-सेवा-पुरस्कार-सम्बद्धस्य कार्य-समूहस्य अध्यक्षता अपि कृता। सुशासन-, प्रशासनिक-संशोधन- तथा संस्थान-निर्माण-क्षेत्रेषु तस्याः योगदानं राष्ट्रिय-अन्ताराष्ट्रिय-स्तरेषु प्रशंसितम् अस्ति।

डीसी-पदात् आरभ्य अतिरिक्त-मुख्य-सचिव-पद-पर्यन्तं निर्वाहितानि महत्त्वपूर्ण-दायित्वानि, पतिः अपि हिमाचलस्य मुख्य-सचिवः आसीत्

उपमा-चौधर्याः हिमाचल-प्रदेशेन सह गाढः प्रशासनिक-सम्बन्धः आसीत्। तया सोलन-जनपदस्य उपायुक्ता रूपेण सेवाः प्रदत्ताः तथा राज्य-शासने सचिवा, प्रधान-सचिवा तथा अतिरिक्त-मुख्य-सचिवा इत्यादिषु महत्त्वपूर्णेषु पदेषु कार्यं कृतम्। प्रशासनिक-वृत्तेषु सा नीतिगत-निर्णयेषु, प्रभावी-नेतृत्वे तथा सुशासने प्रसिद्धा अस्ति। तस्याः पतिः विनीत-चौधरी अपि हिमाचल-प्रदेशस्य पूर्वमुख्यसचिवः आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani