Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, ३० मे-मासः (हि.स.)। हिमाचलप्रदेशे पञ्चायतनिर्वाचनस्य तृतीय-अन्तिमचरणस्य मतदानेन सह शनिवासरे प्रातःकाले ग्राम्यलोकतन्त्रम् पुनरेकवारम् उत्सवरूपे परिवर्तितम्। पर्वतीयप्रदेशेषु प्रातःकालात् वर्षद्भिः मेघैः तथा अनेकेषु क्षेत्रेषु प्रतिकूलवातावरणस्य उपस्थितौ अपि मतदातॄणाम् उत्साहः न्यूनः न अभवत्। मतदानारम्भात् केवलं द्विहोराभ्यन्तरे प्रातः नववादनपर्यन्तं प्रदेशस्य ११८९ ग्रामपञ्चायतेषु सामान्यरूपेण प्रायः २० प्रतिशतं मतदानम् अभिलेखितम्।
शिमला-सोलन-सहितेषु अनेकेषु जनपदेषु प्रातःकालात् मेघवर्षा अभवत्, तथापि ग्रामवासिनः छत्राणि गृहीत्वा मतदानकेन्द्राणि प्रति गच्छन्तः दृष्टाः। वृद्धानां, महिलानां, यूनां च दीर्घपङ्क्तयः एतत् सूचितवन्तः यत् प्रतिकूलवातावरणम् अपि ग्रामीणमतदातॄणां लोकतान्त्रिक-उत्साहं निरोद्धुं न शक्तम्।
राज्यनिर्वाचनायोगस्य अनुसारं प्रातः नववादनपर्यन्तं सर्वाधिकं २४ प्रतिशतं मतदानं सिरमौर-जनपदे अभिलेखितम्। अन्येषु जनपदेषु बिलासपुरे १९.५७ प्रतिशतं, चम्बायां १९.११ प्रतिशतं, हमीरपुरे १९.८५ प्रतिशतं, कांगड़ायां १८.३१ प्रतिशतं, किन्नौरे २०.३३ प्रतिशतं, कुल्लू-जनपदे २०.५५ प्रतिशतं, लाहौल-स्पीति-प्रदेशे १७.३५ प्रतिशतं, मण्डी-जनपदे १८.०४ प्रतिशतं, शिमलायां २०.२५ प्रतिशतं, सोलन-जनपदे १९.८९ प्रतिशतं तथा ऊना-जनपदे १९.७६ प्रतिशतं मतदानं अभिलेखितम्।
प्रातः सप्तवादने प्रारब्धं मतदानम् अपराह्णे त्रिवादनपर्यन्तं प्रवर्तिष्यते। मतदानसमाप्तेः अनन्तरं अद्य सायंकालतः प्रधान-उपप्रधान-वार्डसदस्यपदानां परिणामाः घोषिताः भविष्यन्ति। पञ्चायतसमितिः (बीडीसी) तथा जनपदपरिषद्-सदस्यनिर्वाचनपरिणामाः रविवासरे घोषिताः भविष्यन्ति।
अस्मिन् मध्ये शिमला-जनपदस्य खड़ाहण-ग्रामपञ्चायतात् लोकतन्त्रस्य एका प्रेरणादायिनी छवि: प्रकटिता, या सर्वेषां ध्यानम् आकर्षितवती। अत्र वार्ड-संख्या ३ मध्ये एकस्यैव परिवारस्य चत्वारः वंशाः एकत्र मतदानार्थं आगताः। परिवारस्य वरिष्ठतमः सदस्यः १०१ वर्षीयः पदमदासः मतदानं कृतवान्। तेन सह ७६ वर्षीयः केवलरामः, ४७ वर्षीयः महेन्द्रसिंहः तथा २४ वर्षीयः दीपकमेहता अपि स्वमताधिकारस्य प्रयोगं कृतवन्तः। एकस्य परिवारस्य चतुर्णां वंशानां मतदानकेन्द्रं प्रति आगमनं ग्रामीणलोकतन्त्रस्य सजीवता लोकतान्त्रिक-परम्परायाश्च प्रतीकरूपेण अभवत्।
प्रदेशे पञ्चायतीराज-संस्थानानां निर्वाचनानि त्रिषु चरणेषु आयोज्यन्ते तथा शनिवासरे अन्तिमचरणस्य मतदानं भवति। अनेन सह हिमाचलप्रदेशस्य सर्वेषु ३७५४ ग्रामपञ्चायतेषु निर्वाचनप्रक्रिया पूर्णा भविष्यति। ग्रामाणां कृते अग्रिमपञ्चवर्षाणि यावत् नूतना शासनव्यवस्था भविष्यति, या स्थानीय-विकास-योजनानां जनहितसम्बद्धनिर्णयानां च दिशां निर्धारयिष्यति।
राज्यनिर्वाचनायोगेन जनपद-प्रशासनेन च संवेदनशील-अतिसंवेदनशील-मतदानकेन्द्रेषु अतिरिक्त-आरक्षकबलं नियुक्तम्। निर्वाचनं पूर्णतया शान्तिपूर्णतया निष्पक्षरूपेण च सम्पन्नं भवेत् इति उद्देश्येन मतदानप्रक्रियायाः निरन्तरनिरीक्षणं क्रियते।
पूर्वयोः द्वयोः चरणयोः अपि मतदातृभिः अभिलेखनीयः उत्साहः प्रदर्शितः। प्रथमचरणे प्रायः ७९ प्रतिशतं तथा द्वितीयचरणे प्रायः ८० प्रतिशतं मतदानम् अभिलेखितम्। अतः निर्वाचन-अधिकारिणः आशां कुर्वन्ति यत् वातावरणजन्यबाधानाम् उपस्थितौ अपि तृतीयचरणे मतदानप्रतिशतं उल्लेखनीयं भविष्यति।
Hindusthan Samachar / Divya Ranjan