हिंदीपत्रकारितास्वतंत्रता आंदोलनम् आधृत्य अद्यपर्यन्तं निर्व्यूढा महत्वपूर्णभूमिका : विनय कुमारः
शिमला, 30 मईमासः (हि.स.)। प्रदेशकाङ्ग्रेसाध्यक्षः विनयकुमारः हिन्दीपत्रकारितादिवसस्य अवसरे हिन्दीजगतः सर्वेभ्यः पत्रकारेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् मातृभाषायाः हिन्दीभाषायाः प्रचारप्रसारे जनजागरणे च हिन्दीपत्रकारितायाः अतुलनीयम् योगदानम् अ
प्रदेश कांग्रेस अध्यक्ष विनय कुमार


शिमला, 30 मईमासः (हि.स.)।

प्रदेशकाङ्ग्रेसाध्यक्षः विनयकुमारः हिन्दीपत्रकारितादिवसस्य अवसरे हिन्दीजगतः सर्वेभ्यः पत्रकारेभ्यः शुभकामनाः प्रदाय उक्तवान् यत् मातृभाषायाः हिन्दीभाषायाः प्रचारप्रसारे जनजागरणे च हिन्दीपत्रकारितायाः अतुलनीयम् योगदानम् अस्ति।

स्वीयशुभकामनासन्देशे विनयकुमारः उक्तवान् यत् देशस्य स्वातन्त्र्यआन्दोलनस्य कालखण्डे हिन्दीपत्रकारितया राष्ट्रप्रेमभावना जनजनं प्रति प्रसारयितुं जनान् एकत्रीकर्तुं च महत्त्वपूर्णा भूमिका निर्वाहिता। तेन उक्तं यत् हिन्दीपत्रकारिता देशस्य स्वातन्त्र्यप्राप्तिसंघर्षे दृढमाध्यमरूपेण कार्यं कृतवती तथा समाजस्य जागरणे महत्त्वपूर्णं योगदानं दत्तवती।

तेन उक्तं यत् अद्यापि हिन्दीपत्रकारिता देशे विशेषं स्थानं धारयति। देशस्य विशालजनसंख्या स्वसमस्याः जनहितविषयान् सामाजिकसरोकारांश्च हिन्दीमाध्यमस्य द्वारा प्रभावीरूपेण शासनस्य समाजस्य च समक्षं स्थापयति। लोकतन्त्रस्य सुदृढीकरणे हिन्दीपत्रकारितायाः भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।

प्रदेशकाङ्ग्रेससङ्गठनस्य महासचिवः विनोदजिण्टा अपि हिन्दीपत्रकारितादिवसे पत्रकारेभ्यः शुभकामनाः प्रदाय तेषां साहसिकनिष्पक्षजनहितसम्बद्धकार्याणां प्रशंसां कृतवान्। तेन उक्तं यत् पत्रकाराः लोकतन्त्रस्य चतुर्थस्तम्भरूपेण समाजं सम्यग्दिशां प्रति नेतुं महत्त्वपूर्णं कार्यं कुर्वन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani