Enter your Email Address to subscribe to our newsletters

नवदेहली, ३० मे-मासः (हि.स.)। गुरु-गोविन्दसिंह-इन्द्रप्रस्थ-विश्वविद्यालयस्य (आईपीयू) इन्स्टिट्यूशन-इनोवेशन-काउन्सिल (आईआईसी) इत्यनेन विश्वविद्यालयस्य अन्यैः सहयोगि-विभागैः—अटल-इन्क्यूबेशन-केन्द्रेण तथा आईपीयू-इनोवेशन-एण्ड-इन्क्यूबेशन-फाउण्डेशन-संस्थया सह संयुक्तरूपेण शनिवासरे द्वारका-परिसरे राज्यानां कृत्रिम-बुद्धिमत्ता-उत्कृष्टता-केन्द्राणां विषये एकस्याः रणनीतिक-कार्यशालायाः आयोजनं कृतम्।
कार्यशालायाः उद्घाटनं कुर्वन् दिल्ली-सर्वकारस्य सूचना-प्रौद्योगिकी-विभागस्य विशेष-सचिवः आनन्द-तिवारी उक्तवान् यत् कृत्रिम-बुद्धिमत्ता (एआई) अधुना अस्माकं पारिस्थितिकी-तन्त्रस्य अभिन्नः भागः अभवत्। देशं अग्रिम-स्तरं नेतुं कृत्रिम-बुद्धिमत्ता-उत्कृष्टता-केन्द्राणि स्थापितानि सन्ति इति सः अवदत्।
अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः डॉ.महेश-वर्मा उक्तवान् यत् अद्यत्वे कृत्रिम-बुद्धिमत्ता इति शब्दः अत्यन्तं प्रचलितः जातः अस्ति, किन्तु तस्याः अधिकतम-उपयोगितां प्राप्तुं आधारभूत-अवसंरचनायाः त्वरित-निर्माणस्य आवश्यकता वर्तते। सः अवदत् यत् कृत्रिम-बुद्धिमत्तायाः माध्यमेन देशस्य दुर्गम-प्रदेशेषु अन्तिम-सीमापर्यन्तं च सम्पर्कं स्थापयितुं शक्यते।
पञ्च-राज्यानाम्—दिल्ली-जम्मू-कश्मीर-लद्दाख-मध्यप्रदेश-उत्तराखण्ड—कृत्रिम-बुद्धिमत्ता-उत्कृष्टता-केन्द्राणां प्रतिनिधिभिः कृत्रिम-बुद्धिमत्ता-केन्द्राणां सक्रियीकरणे सञ्चालन-विषये च व्यावहारिकं ज्ञानं प्रदत्तम्।
Hindusthan Samachar / Divya Ranjan