Enter your Email Address to subscribe to our newsletters

बेंगलुरुः, 30 मईमासः (हि.स.)।
कर्नाटक-काङ्ग्रेस-विधायक-दलस्य (सीएलपी) महत्त्वपूर्णा गोष्ठी अद्य बेङ्गलूरुनगरे आयोजिता भविष्यति, यस्याम् राज्यस्य अग्रिम-मुख्यमन्त्रिणः चयन-प्रक्रिया औपचारिकरूपेण अग्रे नीयते। वर्तमान-प्रदेश-काङ्ग्रेस-अध्यक्षः तथा पूर्व-उपमुख्यमन्त्री डी.के. शिवकुमारः विधायक-दलस्य नूतन-नेता रूपेण चयनितः भविष्यतीति प्रायः निश्चितम् मन्यते।
एषा संगोष्ठी अद्य सायं चतुर्वादने विधान-सौधस्य तृतीय-तले स्थिते सम्मेलन-कक्षे आयोजिता भविष्यति। विधायक-दलस्य सचिवः अल्लमप्रभु पाटिलः सर्वान् काङ्ग्रेस-विधायकान् उपवेशने अनिवार्यरूपेण उपस्थितुं निर्देशान् दत्तवान्।
पूर्व-मुख्यमन्त्रिणः सिद्धरामैय्या इत्यस्य त्यागपत्रं शुक्रवासरे कर्नाटकस्य राज्यपालः थावरचन्द-गेहलोतः स्वीकृतवान्। एतेन सह राज्य-मन्त्रिमण्डलम् अपि भङ्गं कृतम् अस्ति। अस्याः पृष्ठभूमेः मध्ये काङ्ग्रेस-विधायक-दलस्य गोष्ठी आहूता अस्ति।
उपवेशनस्य अध्यक्षता सिद्धरामैय्यः करिष्यति। अस्मिन् अवसरे काङ्ग्रेसस्य कर्नाटक-प्रभारी रणदीपसिंह-सुरजेवाला, विधान-परिषदि सदन-नेता एन.एस्. भोसाराजू, डी.के. शिवकुमारः सहितं दलस्य वरिष्ठ-नेतारः तथा सर्वे काङ्ग्रेस-विधायकाः उपस्थिताः भविष्यन्ति।
---------------
Hindusthan Samachar / अंशु गुप्ता