Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३० मे-मासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपालनगरे अद्य शनिवासरात् ‘मेनस्ट्रीमिंग-एलआईएफईः पर्यावरणानुकूल-स्थायिनगरीय-आवासानां निर्माणम्’ इति विषये प्रथमं राष्ट्रीयसम्मेलनम् आयोज्यते। अस्मिन् द्विदिवसीये राष्ट्रीयसम्मेलने देशस्य विविधभागेभ्यः विशेषज्ञाः, नीतिनिर्मातारः, शोधकर्तारः, पर्यावरणविदः तथा नागरिकाः पर्यावरणानुकूल-जीवनशैली तथा तदनुबद्ध-नगरीयविकासविषये विचारविमर्शं करिष्यन्ति।
जनसम्पर्क-अधिकारी केके जोशी इत्यनेन सूचना प्रदत्ता यत् सम्मेलनस्य आयोजनं सोसाइटी ऑफ नेचर हीलर्स एंड कंज़र्वेटर्स (एसएनएचसी इंडिया) इत्यनया संस्थया मध्यप्रदेश-राज्य-जैवविविधता-परिषदः सहयोगेन क्रियते। अस्मिन् राष्ट्रीयसम्मेलने नगरीय-जैवविविधता-संरक्षणम्, पर्यावरणसंरक्षणम्, जलवायुपरिवर्तनम्, स्थायि-नगरीयविकासः, पर्यावरणानुकूल-जीवनशैली इत्यादिषु महत्त्वपूर्णविषयेषु गम्भीरचर्चा भविष्यति।
तेन उक्तं यत् एसएनएचसी इंडिया संस्था विगतवर्षेषु पर्यावरणसंरक्षणे, नगरीय-जैवविविधता-संवर्धने तथा जलसंरक्षणक्षेत्रे सक्रियतया कार्यं करोति। अस्य सम्मेलनस्य उद्देश्यं जलवायुपरिवर्तनस्य समस्यानां मध्ये नगराणि अधिकं पर्यावरणानुकूलानि, स्थायिनि तथा जलवायुसक्षमाणि कर्तुं व्यवहारिकसमाधानानां नीत्याधारित-सूचनानां च प्रोत्साहनम् अस्ति।
जनसम्पर्क-अधिकारिणः अनुसारं सम्मेलनं केवलं पर्यावरणीय-समस्यानां चर्चामञ्चः न भविष्यति, अपितु नागरिकान् स्वदैनिकजीवने पर्यावरणानुकूल-आचरणस्य ग्रहणाय प्रेरयिष्यति अपि। सम्मेलनस्य मूलोद्देश्यं प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन प्रतिपादितस्य ‘लाइफ’ (लाइफस्टाइल फॉर इन्वायरमेंट) इति अवधारणायाः जन-जनपर्यन्तं प्रसारणं तस्य व्यवहारिकरूपेण अनुपालनाय च प्रेरणम् अस्ति।
तेन विश्वासः व्यक्तीकृतः यत् देशस्य विभिन्नप्रदेशेभ्यः विविध-आयुवर्गेभ्यः, व्यवसायेभ्यः तथा पृष्ठभूमिभ्यः आगच्छन्तीनां सहभागिनां सहभागितया एतत् सम्मेलनं ज्ञानविनिमयस्य, नीतिसंवादस्य तथा सामूहिककार्यवाह्याः महत्त्वपूर्णं मञ्चं भविष्यति। सम्मेलनात् प्राप्तानि निष्कर्षाणि सूचनानि च सतत-नगरीय-नियोजनस्य, जैवविविधता-संरक्षणस्य तथा पर्यावरणानुकूल-जीवनशैली-प्रोत्साहनस्य कृते उपयोगिनि सिद्धानि भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan