मध्यप्रदेश-वैश्विक-कौशल-उद्यानतः अन्ताराष्ट्रिय-रोजगारावसरान् प्राप्नुवन्ति युवान:, त्रयाणां प्रशिक्षणार्थिनां हङ्गरी-देशे चयनम्
भोपालनगरम्, ३० मे-मासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाल-नगरे स्थितः सन्त-शिरोमणि-रविदास-वैश्विक-कौशल-उद्यानम् (एसएसआरजीएसपी) कौशल-विकासस्य तस्याः नूतनायाः कार्यसंस्कृतेः सशक्तम् उदाहरणं जातम् अस्ति, यत्र प्रशिक्षणं केवलं पाठ्यक्रमपर्यन्तं सी
मप्र के तीन प्रशिक्षणार्थियों को हंगरी में चयन


मप्र के तीन प्रशिक्षणार्थियों को हंगरी में चयन


भोपालनगरम्, ३० मे-मासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाल-नगरे स्थितः सन्त-शिरोमणि-रविदास-वैश्विक-कौशल-उद्यानम् (एसएसआरजीएसपी) कौशल-विकासस्य तस्याः नूतनायाः कार्यसंस्कृतेः सशक्तम् उदाहरणं जातम् अस्ति, यत्र प्रशिक्षणं केवलं पाठ्यक्रमपर्यन्तं सीमितं नास्ति, अपितु यूनः वैश्विक-उद्योगानां आवश्यकतानुरूपं सज्जीकर्तुं निरन्तरं प्रयत्नः क्रियते। प्रदेशे विकसितं कौशल-तन्त्रम् अधुना यूनः अन्ताराष्ट्रिय-रोजगारावसरेभ्यः अपि संयोजयति।

जनसम्पर्क-अधिकारिणी बबीता-मिश्रा शनिवासरे अवदत् यत् प्रदेशस्य मुख्यमन्त्रिणा डॉ.मोहन-यादवेन कौशल-विकासः औद्योगिक-विकासेन, निवेशेन, रोजगारेन च सम्बद्धः कृतः अस्ति, तथा च यूनां कृते नूतनावसराः निर्मीयन्ते। अस्मिनेव दिशि कौशल-विकास-रोजगार-राज्यमन्त्रिणः गौतम-टेटवालस्य मार्गदर्शनेन प्रदेशे कौशलाधारित-प्रशिक्षण-व्यवस्थाः अधिकाः उद्योगोन्मुख्या: रोजगारपरकाः च निर्मिताः सन्ति, यस्य सकारात्मकाः परिणामाः अधुना दृश्यन्ते। अस्य क्रमस्य अन्तर्गतं संस्थायाः नवम-प्रशिक्षण-समूहस्य (बैच-९) त्रयः विद्यार्थिनः हङ्गरी-देशे रोजगारार्थं चयनिताः सन्ति। चयनिताः विद्यार्थिनः हङ्गरी-देशं प्राप्य स्वव्यावसायिक-दायित्वानां निर्वहणम् आरब्धवन्तः। एषा उपलब्धिः प्रदेशे विकसितस्य आधुनिक-कौशल-प्रशिक्षण-प्रारूपस्य उद्योगोन्मुख-शिक्षा-व्यवस्थायाश्च सफलतां प्रकाशयति।

सा अवदत् यत् हङ्गरी-देशे रोजगारं प्राप्तवत्सु विद्यार्थिषु लकी-साहू नामकः उन्नत-यान्त्रिक-प्रौद्योगिकी-पाठ्यक्रमस्य छात्रः, तथा रौशन-कुमारः एवं मयङ्क-जाङ्गिडः उन्नत-यान्त्रिक-वैद्युत-सेवा-पाठ्यक्रमस्य छात्रौ सन्ति। सिवनी, चम्पारण तथा दौसा-क्षेत्रेभ्यः आगताः एते विद्यार्थिनः एतत् सिद्धं कृतवन्तः यत् गुणवत्तायुक्त-प्रशिक्षणेन उपयुक्त-अवसरेण च यूनः वैश्विक-स्तरे स्वविशिष्टं परिचयं निर्मातुं शक्नुवन्ति।

एसएसआरजीएसपी-संस्थायां विद्यार्थिनः अत्याधुनिक-यन्त्रैः, अनुकरण-आधारित-प्रशिक्षणेन, व्यावहारिक-अभ्यासैः तथा उद्योगानां वास्तविक-आवश्यकतानुसारं निर्मितैः पाठ्यक्रमैः प्रशिक्ष्यन्ते। प्रशिक्षण-प्रक्रियायां तकनीकी-दक्षतया सह कार्यस्थल-अनुशासनस्य, व्यावसायिक-व्यवहारस्य, सुरक्षा-मानकानां तथा अन्तरराष्ट्रीय-कार्यसंस्कृतेः अवबोधनस्य अपि विशेषः बलः दीयते। एतदेव कारणं यत् अस्य संस्थायाः प्रशिक्षिताः यूनः राष्ट्रिय-अन्ताराष्ट्रिय-निर्माणीनां अपेक्षासु सफलाः भवन्ति।

प्रदेशस्य कौशल-विकास-रोजगार-राज्यमन्त्री गौतम-टेटवालः चयनित-विद्यार्थिभ्यः शुभकामनाः प्रदाय उक्तवान् यत् हङ्गरी-देशे विद्यार्थिनां चयनं प्रदेशस्य कौशल-विकास-प्रतिमानस्य गुणवत्तां प्रभावशीलतां च प्रदर्शयति। सः अवदत् यत् प्रदेश-सर्वकारः यूनः केवलं प्रशिक्षणेन न, अपितु रोजगारेन अपि संयोजयितुं कार्यं करोति। आधुनिक-कौशलैः, व्यावहारिक-प्रशिक्षणेन तथा उद्योगानां याचनानुसारं सज्जीकृतैः मानव-संसाधनैः एव विकसित-मध्यप्रदेशस्य आधारशिला निर्मास्यते।

एतेषां विद्यार्थिनां सफलता तस्य व्यापक-परिवर्तनस्य सूचिका अस्ति, यस्मिन् मध्यप्रदेशस्य यूनः अधुना स्थानीय-सीमाः अतिक्रम्य वैश्विक-स्तरे स्वोपस्थितिं पञ्जीकुर्वन्ति। आगामिषु कालेषु एसएसआरजीएसपी प्रदेशस्य अधिकाधिकान् यूनः अन्तरराष्ट्रीय-रोजगारावसरेभ्यः संयोजयित्वा कौशल-विकास-क्षेत्रे नूतनाः उपलब्धयः स्थापयिष्यति।

जनसम्पर्क-अधिकारिणी अवदत् यत् हङ्गरी-देशे एतेषां त्रयाणां विद्यार्थिनां चयनं वैश्विक-स्तरे प्रतिष्ठिते एसआरएफ लिमिटेड् औद्योगिक-समूहे अभवत्। एषा संस्था विशेष-रसायन-निर्माणे, फ्लोरोकेमिकल्स, पैकेजिङ्ग-फिल्म्स तथा तकनीकी-वस्त्र-उद्योगेषु कार्यरतासु भारतस्य अग्रणी-निर्माण-निर्मणीषु अन्यतमा अस्ति। अस्याः उत्पादन-एककानि भारतस्य अतिरिक्तं यूरोप-स्थिते हङ्गरी-देशे अपि सञ्चालितानि सन्ति। निर्माणी उन्नत-प्रौद्योगिक्याः, वैश्विक-गुणवत्ता-मानकानां तथा नवाचार-आधारित-कार्यसंस्कृतेः कृते प्रसिद्धा अस्ति।

एतादृश्यां प्रतिष्ठितायाम् अन्ताराष्ट्रिय-निर्माण्याम् रोजगार-प्राप्तिः विद्यार्थिनां कौशलस्य, प्रशिक्षणस्य, व्यावसायिक-दक्षतायाश्च प्रमाणम् अस्ति। एतत् अपि दर्शयति यत् एसएसआरजीएसपी-संस्थायाः प्रशिक्षिताः यूनः वैश्विक-उद्योगानां आवश्यकतानुरूपं स्वयम् सफलतया प्रतिष्ठापयन्ति।

हिन्दुस्थान समाचार / Divya Ranjan