Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 30 मईमासः (हि.स.)।
ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी भ्रष्टाचारस्य अनियमिततानां च विरुद्धं कठोरं दृष्टिकोणम् अवलम्ब्य भुवनेश्वरस्य पूर्वम् अतिरिक्ततहसीलदारं चित्तरञ्जनपिल्ला इत्येतं शासकीयसेवातः बर्खास्तं कृतवान्। चित्तरञ्जनपिल्ला पूर्वं भुवनेश्वरे अतिरिक्ततहसीलदारपदे कार्यरतः आसीत् तथा पश्चात् जगत्सिंहपुरे उपजिलाधिकारिरूपेण नियुक्तः अभवत्। भुवनेश्वरे स्वकार्यकाले तेन कृतानां बहूनां प्रशासनिकनिर्णयानां विषये विशेषतः भूमिसम्बद्धप्रकरणेषु अनियमिततानाम् आरोपाः समुत्थापिताः आसन्। एतेषाम् आरोपाणाम् आधारेण विभागस्य वरिष्ठाधिकारिभिः विस्तृता जांचा कारिता। परिशीलने भूमिसम्बद्धविविधप्रकरणेषु गम्भीराणाम् अनियमिततानां पुष्टिः जाता, ततः अनन्तरं राज्यसर्वकारेण तस्य विरुद्धं कठोरा कार्यवाही कृता। मुख्यमन्त्रिणः मोहनचरणमाझी इत्यस्य निर्देशानुसारं चित्तरञ्जनपिल्ला शासकीयसेवातः तत्कालप्रभावेण बर्खास्तः कृतः।
उल्लेखनीयम् अस्ति यत् मुख्यमन्त्री माझी निरन्तरं भ्रष्टाचारविरुद्धं ‘शून्यसहिष्णुतानीतेर्विषये बलं दत्तवान्। तेन अनेकासु अवसरासु स्पष्टतया उक्तं यत् भ्रष्टाचारे संलिप्तः कश्चन अधिकारी कर्मचारी वा न क्षम्यते तथा शासनप्रशासने पारदर्शिता उत्तरदायित्वं च सुनिश्चितं कर्तुं कठोराणि पदानि स्वीकरिष्यन्ते।
---------------
Hindusthan Samachar / Dheeraj Maithani