Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 30 मईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी बुधवासरे संस्कृत-सुभाषितं सहकृत्य उक्तवान् यत् विनम्रता, क्षमाशीलता तथा उत्तम-आचरणमेव व्यक्तित्वस्य वास्तविकानि आभूषणानि सन्ति। सः उक्तवान् यत् एतेषां गुणानां सहायतया अद्य देशवासिनः विकसित-भारत-संकल्पस्य सिद्धौ निरन्तरं संलग्नाः सन्ति।
प्रधानमन्त्री सामाजिक-माध्यम-मञ्चे एक्स् इत्यत्र अलिखत् — “विनम्रता, क्षमाशीलता तथा उत्तम-आचरणमेव व्यक्तित्वस्य वास्तविकानि आभूषणानि सन्ति। एतेषां गुणानां सहायतया अद्य देशवासिनः विकसित-भारत-संकल्पस्य सिद्धौ निरन्तरं संलग्नाः सन्ति।”
एतेन सह तेन संस्कृत-सुभाषितं सहकृत्य लिखितं यत्
“तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता।
भवन्ति सम्पदं दैवीमभिजातस्य भारत।।“
अस्य सुभाषितस्य अर्थः अस्ति यत् तेजः, क्षमा, धैर्यम्, पवित्रता, कस्यापि प्रति द्वेषभावस्य अभावः तथा अहंकारात् दूरत्वम् एते दैवी-गुणाः सन्ति, ये श्रेष्ठ-व्यक्तित्वयुक्तस्य जनस्य परिचायकाः भवन्ति।
---------------
Hindusthan Samachar / अंशु गुप्ता