आन्ध्रप्रदेशः निर्मित: उद्योग-सहभागिता-कार्यान्वयनस्य प्रथम: कर्ता — पी.एम.-सेतु-योजनायाः अन्तर्गतं प्रथम-निवेश-योजनायाः अनुमोदनं प्राप्तम्
नवदिल्ली, ३० मे-मासः (हि.स.)। केन्द्र-सर्वकारः प्रधानमन्त्री-कौशल-विकास-उद्यमिता-रूपान्तरण-योजना (पीएम-सेतु) इत्यस्य अन्तर्गतं एकं महत्त्वपूर्णं पदं गृहीतवान्, यतः आर्सेलर मित्तल-निप्पॉन-स्टील-इण्डिया इत्यनेन प्रस्तुतस्य विशाखापट्टनम्-आईटीआई-क्लस्ट
बैठक करती केंद्रीय कौशल विकास मंत्रालय की सचिव देबाश्री मुखर्जी।


नवदिल्ली, ३० मे-मासः (हि.स.)। केन्द्र-सर्वकारः प्रधानमन्त्री-कौशल-विकास-उद्यमिता-रूपान्तरण-योजना (पीएम-सेतु) इत्यस्य अन्तर्गतं एकं महत्त्वपूर्णं पदं गृहीतवान्, यतः आर्सेलर मित्तल-निप्पॉन-स्टील-इण्डिया इत्यनेन प्रस्तुतस्य विशाखापट्टनम्-आईटीआई-क्लस्टर-इत्यस्य ‘स्ट्रैटेजिक-इन्वेस्टमेंट-प्लान’ (एस.आई.पी.) इत्यस्य अनुमोदनं कृतम्। एषा योजना पीएम-सेतु-योजनायाः अन्तर्गतं स्वीकृता प्रथम-निवेश-योजना अस्ति। अनया सह आन्ध्रप्रदेशः उद्योग-सहभागिता-प्रतिरूपं कार्यान्वयितुं प्रथमः प्रदेश: जातः।

केन्द्रीय-कौशल-विकास-उद्यमिता-मन्त्रालयस्य अनुसारं नवदिल्ली-स्थिते कौशल-भवने आयोजितायां उच्चस्तरीय-सभायां एषा योजना स्वीकृता। सभायाः अध्यक्षता मन्त्रालयस्य सचिवा देबश्री-मुखर्जी इत्यनया कृता। अस्यां सभायां प्रशिक्षण-महानिदेशालयस्य (डी.जी.टी.) महानिदेशकः दिलीप-कुमारः, राष्ट्रिय-सञ्चालन-समितेः सदस्याः, क्षमता-निर्माण-आयोगः, राष्ट्रिय-व्यावसायिक-शिक्षा-प्रशिक्षण-परिषद् (एन.सी.वी.ई.टी.), वाणिज्य-उद्योग-मन्त्रालयः, भारी-उद्योग-मन्त्रालयः तथा श्रम-रोजगार-मन्त्रालयः इत्यादीनां वरिष्ठ-अधिकारीणां सहभागः आसीत्।

सभायां विभिन्न-राज्य-सर्वकार-प्रतिनिधयः तथा उद्योग-जगतः प्रमुख-निर्माणिनां वरिष्ठ-अधिकारीणः अपि भागं गृहीतवन्तः। तेषु हिन्दुस्तान-एयरोनॉटिक्स-लिमिटेड्, हीरो-मोटोकॉर्प, बजाज-ऑटो, आई.टी.सी. लिमिटेड् तथा आर्सेलर-मित्तल-निप्पॉन-स्टील-इण्डिया इत्येषां प्रतिनिधयः अन्तर्भवन्ति। तथा एशियाई-विकास-धनागार: विश्व-धनागार: इत्यादयः अन्ताराष्ट्रिय-विकास-संस्थाः अपि सभायां उपस्थिताः आसन्।

मन्त्रालयेन उक्तं यत् आन्ध्रप्रदेशः पीएम-सेतु-योजनायाः अन्तर्गतं ‘एंकर-इण्डस्ट्री-पार्टनर’ इत्यस्य समावेशं कुर्वन् प्रथमं राज्यं जातम्। एष: प्रयत्न: सर्वकारी-औद्योगिक-प्रशिक्षण-संस्थानां (आई.टी.आई.) उद्योग-प्रबन्धितं, परिणाम-आधारितं तथा रोजगारोन्मुखं रूपं दातुं महत्त्वपूर्णं पदम् इति मन्यते।

सभायां योजनायाः क्रियान्वयनस्य प्रगतेः समीक्षा कृता तथा उद्योग-सहभागितां सुदृढीकर्तुं, संस्थागत-प्रशासन-सुधारं कर्तुं, विशेष-प्रयोजन-वाहनानां (एस.पी.वी.) वित्तीय-स्थिरतां वर्धयितुं तथा परियोजनानां शीघ्र-क्रियान्वयनाय विस्तरेण चर्चा कृता।

विशेषज्ञाः मन्यन्ते यत् उद्योग-प्रशिक्षण-संस्थानयोः मध्ये सुदृढ-सहभागेन कौशल-विकास-कार्यक्रमाणां गुणता वर्धिष्यते तथा यूनां रोजगार-क्षमता विपण-आवश्यकतानुरूपं सुदृढा भविष्यति। पीएम-सेतु-योजना अस्यां दिशि एकं रूपान्तरणात्मकं पदम् इति दृश्यते।

Hindusthan Samachar / Divya Ranjan