Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 30 मईमासः (हि.स.)।
राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्र मोदी, लोकसभाध्यक्षः ओमबिरला इत्येतैः सहिताः अनेके नेतारः गोवास्थापनादिवसस्य अवसरे राज्यस्य जनान् अभिनन्दनानि शुभकामनाश्च प्रदाय प्रदेशस्य समृद्ध-सांस्कृतिकसंपदः, प्राकृतिक-सौन्दर्यस्य तथा विकास-यात्रायाः प्रशंसाम् अकुर्वन्।
राष्ट्रपतिः मुर्मुः एक्स्-लेखे उक्तवती यत् गोवा केवलं स्वस्य समृद्ध-सांस्कृतिक-धरोहरायाः तथा सस्नेह-आतिथ्यस्य कारणेन प्रसिद्धः नास्ति, अपितु शिक्षा, प्रौद्योगिकी, स्टार्टअप् तथा सतत-विकास-क्षेत्रेषु अपि उल्लेखनीयां प्रगतिं करोति। नवोन्मेषस्य, पर्यावरण-संरक्षणस्य तथा समावेशी-विकासस्य प्रति स्वीय-प्रतिबद्धतया सह गोवा विकसित-भारत-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहिष्यति। तया राज्यवासिनां समृद्धेः सुखस्य च कामना कृता।
प्रधानमन्त्री मोदी एक्स्-लेखे उक्तवान् यत् अयं दिवसः गोवायाः परिचयस्य प्रगतेः च कृते अथक-परिश्रमं कृतवन्तः सर्वान् जनान् कृतज्ञतया स्मर्तुम् अवसरम् अपि ददाति। सः उक्तवान् यत् गोवा निरन्तरं प्रगतिं कुर्यात् तथा विकसित-भारत-निर्माणे महत्त्वपूर्णां भूमिकां निर्वहेत्।
प्रधानमन्त्रिणा गोवायाः जनानां उत्तम-स्वास्थ्यस्य, सुख-समृद्धेः तथा उज्ज्वल-भविष्यस्य अपि कामना कृता।
अन्यस्मिन् लेखे प्रधानमन्त्री गोवायाः मातृभाषायाम् अपि शुभकामनाः प्रदत्तवान्। सः उक्तवान् यत् गोवा-राज्य-स्थापना-दिवसे सर्वेभ्यः जनाभ्यः अभिनन्दनानि। तेन गोवायाः संस्कृति:, धरोहरा तथा जनजीवनस्य प्रशंसा कृता। सहैव राज्यस्य विकासस्य समृद्धेः च प्रार्थना कृता।
लोकसभा-अध्यक्षः बिरला गोवां प्राकृतिक-सौन्दर्येन, समृद्ध-सांस्कृतिक-धरोहरया, विविध-परम्पराभिः तथा जीवन्त-जीवनशैल्या परिपूर्णं भारतस्य महत्त्वपूर्णं प्रदेशम् इति वर्णयन् राज्यस्य जनान् शुभकामनाः प्रदत्तवान्। सः उक्तवान् यत् समुद्र-तटानां मनोहर-छटा, ऐतिहासिक-धरोहराः, कला-संस्कृतिः तथा सामाजिक-सौहार्दम् गोवायै वैश्विक-स्तरे विशिष्टां परिचितिम् अददुः।
गृह-सहकारिता-मन्त्री अमितशाहः गोवां संस्कृतीनां धरोहराणां च भव्य-सङ्गमम् इति वर्णयन् राज्यस्य निरन्तर-समृद्धेः कामनाम् अकरोत्।
रक्षा-मन्त्री राजनाथसिंहः उक्तवान् यत् गोवायाः जीवन्त-परम्पराः, सामाजिक-सौहार्दम् तथा वर्धमानाः आकाङ्क्षाः भारतस्य विविधतायाम् एकतायाः शक्तिं प्रदर्शयन्ति।
कृषि-मन्त्री शिवराजसिंह-चौहानः गोवायाः प्राकृतिक-सौन्दर्यस्य सांस्कृतिक-विविधतायाः च प्रशंसां कृत्वा मुख्यमन्त्रिणः प्रमोद-सावन्तस्य नेतृत्वे राज्यस्य निरन्तर-प्रगतेः कामनाम् अकरोत्।
केन्द्रीय-विधि-न्याय-राज्यमन्त्री (स्वतन्त्र-प्रभारः) अर्जुनराम-मेघवालः राज्य-स्थापना-दिवसे अभिनन्दनानि प्रदाय पर्यटन-सहितेषु सर्वेषु क्षेत्रेषु विकासस्य नागरिकानां जीवनस्य सुख-समृद्धेः च कामनाम् अकरोत्।
काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे गोवां संस्कृति:, सौहार्दस्य प्रगतेः च प्रतीकम् इति वर्णयन् उक्तवान् यत् १९८७ तमे वर्षे पूर्व-प्रधानमन्त्रिणः राजीव-गान्धिनः नेतृत्वे गोवायै राज्यस्य दर्जा प्राप्तः आसीत्। तेन राज्ये शान्तेः, समृद्धेः तथा उज्ज्वल-भविष्यस्य कामना कृता।
लोकसभायां प्रतिपक्ष-नेता राहुल-गान्धी गोवां भारतस्य अत्यन्त-मूल्यवान् भूमिषु अन्यतमाम् इति वर्णयन् उक्तवान् यत् एषः प्रदेशः स्वस्य प्राकृतिक-सौन्दर्यस्य, समृद्ध-इतिहासस्य तथा विशिष्ट-सांस्कृतिक-धरोहरायाः कारणेन ज्ञायते। तेन राज्यस्य निरन्तर-प्रगतेः सफलतायाश्च शुभकामनाः प्रदत्ताः।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः, देहली-मुख्यमन्त्री रेखा-गुप्ता, मध्यप्रदेशस्य मुख्यमन्त्री मोहन-यादवः तथा हरियाणायाः मुख्यमन्त्री नायबसिंह-सैनी अपि गोवा-स्थापना-दिवसे राज्यवासिनः अभिनन्दितवन्तः।
आम्-आदमी-पार्टी-दलस्य राष्ट्रिय-संयोजकः अरविन्द-केजरीवालः गोवां स्वहृदयस्य समीपवर्तीम् इति वर्णयन् उक्तवान् यत् राज्यस्य जनानां सस्नेहता आत्मीयता च तम् सदा प्रभावितवती। तेन गोवावासिनां सुखस्य, समृद्धेः तथा खुशहाल-जीवनस्य कामना कृता।
उल्लेखनीयम् अस्ति यत् ३० मई १९८७ तमे वर्षे गोवायै पूर्ण-राज्यस्य दर्जा प्राप्तः आसीत्। ततः प्रभृति एषः प्रदेशः पर्यटनस्य, संस्कृतेः, शिक्षायाः तथा आर्थिक-विकासस्य क्षेत्रेषु निरन्तरं प्रगतिं करोति।
-------------
Hindusthan Samachar / Dheeraj Maithani