‘विकसित-भारतम् २०४७’ इति प्रत्येकं भारतीयस्य स्वप्नं भवेत् : नितिननवीन:
देहरादूननगरम्, ३० मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) राष्ट्रीय-अध्यक्षः नितिननवीन: उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ‘विकसित-भारत-२०४७’ इति संकल्पः केवलं तस्य स्वप्नं न, अपि तु प्रत्येकं भारतीयस्य स्वप्नं भवितव्यम्। सर्वैः भ
भाजपा के राष्ट्रीय अध्यक्ष नितिन नबीन कार्यक्रम को संबोधित करते हुए।


देहरादूननगरम्, ३० मे-मासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) राष्ट्रीय-अध्यक्षः नितिननवीन: उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ‘विकसित-भारत-२०४७’ इति संकल्पः केवलं तस्य स्वप्नं न, अपि तु प्रत्येकं भारतीयस्य स्वप्नं भवितव्यम्। सर्वैः भारतीयैः अस्य संकल्पस्य पूर्तये स्वकीय-योगदानं दातव्यम् इति सः उक्तवान्।

सः शनिवासरे देहरादून-नगरस्य शिवालिक-महाविद्यालये ‘विकसित-भारत-२०४७-निर्माणे उच्च-शिक्षायाः रूपान्तरणात्मक-भूमिका’ इति विषयिणीं प्रबुद्ध-गोष्ठीं सम्बोधितवान्। तत्र सः उक्तवान् यत् पूर्वं भारतं “स्वर्ण-चटका” इति कथ्यते स्म, पश्चात् तस्य वर्णनं केवलं श्रमिक-देशः इति कृतम्। किन्तु अधुना भारतदेश: पुनः “मेक-इन-इण्डिया” इति रूपेण उन्नतिं प्राप्नोति, यत्र जनाः “वोकल-फॉर-लोकल” भावेन स्वदेशीय-उत्पादनं प्रोत्साहयन्ति।

नितिन-नवीनः उक्तवान् यत् योगः, भारतीय-संस्कृतिः तथा तकनीकी-नवाचाराः विश्वे भारतस्य गौरवं वर्धयन्ति। कोविड-कालस्य उल्लेखं कुर्वन् सः उक्तवान् यत् भारतं सामाजिक-सामरस्येन आत्मनिर्भरभावेन च संकटस्य समक्षं कृतवान्। अधुना भारतदेश: केवलं “मानव-शक्ति:” न, अपि तु “उत्पादन-शक्ति:” भवितुं प्रगच्छति।

सः उत्तराखण्ड-राज्यस्य मुख्यमन्त्रिणः पुष्करसिंहधामीन: प्रशंसां कुर्वन् उक्तवान् यत् तेन मातृशक्त्याः कृते सर्वकारी-सेवासु ३० प्रतिशत-क्षैतिज-आरक्षणस्य निर्णयः केवलं प्रशासनिकः न, अपि तु महिलानां सशक्तीकरणाय ऐतिहासिकं पदम् अस्ति। अस्य निर्णयस्य माध्यमेन महिलानां आत्मनिर्भरता वर्धते।

सः इदम् अपि उक्तवान् यत् केन्द्र-सर्वकारस्य योजनाभिः महिलाः, युवा-जनाः तथा सर्वे वर्गाः विकासस्य मुख्यधारायां योज्यन्ते। जनधन-योजनया, डीबीटी-व्यवस्थया तथा डिजिटल-क्रान्त्या पारदर्शिता वर्धिता अस्ति। राज्ये यूसीसी (समान-नागरिक-संहिता) इत्यस्य कार्यान्वयनम् अपि उदाहरणरूपेण प्रस्तुतम्।

Hindusthan Samachar / Divya Ranjan