Enter your Email Address to subscribe to our newsletters


लखनऊनगरम्, ३० मे-मासः (हि.स.)। केंद्रीय-रक्षा-मन्त्री राजनाथसिंहः उत्तरप्रदेश-राज्यस्य मुख्यमन्त्रिणा योगी-आदित्यनाथेन सह शनिवासरे लखनऊ नगरस्य सीजी-सिटी-प्रदेशे नव-कोटि-रूप्यक-व्ययेन निर्मितस्य ‘नौसेना-शौर्य-वाटिका’ इत्यस्य लोकार्पणं कृतवान्। अस्मिन् अवसरे रक्षा-मन्त्री उक्तवान् यत् लखनऊ नगरं राष्ट्रभक्ति-सैन्यगौरवयोः प्रतीकत्वं प्राप्नोति।
लोकार्पण-समारोहं सम्बोधयन् रक्षा-मन्त्री राजनाथः उक्तवान् यत् नौसेना-शौर्य-वाटिका लखनऊ-नगरस्य प्रेरणा-स्थलं भविष्यति तथा च लखनऊस्य परिचयरूपेण अपि प्रतिष्ठां प्राप्स्यति। एषा वाटिका केवलं निर्माण-नमूना न, अपि तु एषा अस्मान् सेनानां संघर्षं योगदानं च स्मारयिष्यति। रक्षा-मन्त्रिणा इदम् अपि घोषितं यत् अत्र पनडुब्बी अपि आगमिष्यति। बालकान् परिवारान् च अत्र नीत्वा अवलोकयितुं सर्वे प्रेरणीयाः, येन ते सैन्य-शौर्येण परिचिताः भवेयुः।
राजनाथः उक्तवान् यत् भारतस्य रक्षा-क्षेत्रं पूर्वं निर्याताय प्रसिद्धं न आसीत्, अपि तु वयं बाह्यदेशेभ्यः आयातं कुर्मः स्म। अधुना तु भारतस्य रक्षा-क्षेत्रं आत्मनिर्भरत्वस्य दिशि तीव्रगत्या अग्रे गच्छति। २०१४ वर्षात् पूर्वं भारतः केवलं सहस्र-कोटि-रूप्यक-मूल्यानि रक्षासम्बद्धानि यन्त्रभागानि एव निर्यातयति स्म, किन्तु अद्यत्वे चत्वारिंशत्-सहस्र-कोटि-रूप्यक-मूल्यस्य आयुधानि भारतात् अन्यदेशेषु निर्यातन्ते। सः उक्तवान् यत् यावत् वयं आयुध-निर्माणे आत्मनिर्भराः न भवामः तावत् भारतं शक्तिशाली राष्ट्रं न कथ्यते। अधुना भारतीय-सेनानां कृते अत्याधुनिक-आयुधानि देशे एव निर्मीयन्ते।
रक्षा-मन्त्री उक्तवान् यत् यः राष्ट्रः स्व-सेनानां सम्मानं करोति सः एव विश्वे सम्मानं प्राप्नोति। अद्यतन-जीवनस्य वेगवती-स्थितौ सैनिकानां त्यागः संघर्षः च बहुधा विस्मृतः भवति, अतः एषा शौर्य-वाटिका तेषां पराक्रमस्य स्मरणं कारयिष्यति।
सः अपि उक्तवान् यत् अस्माकं सुरक्षा अस्माकं सेनाभिः एव क्रियते। भारत-देशः त्रिभिः दिशाभिः समुद्रेण परिवेष्टितः अस्ति। हिन्द-महासागरः अस्माकं अर्थव्यवस्थायाः व्यापारस्य च मुख्याधारः अस्ति, यस्य सुरक्षा नौसेनायाः दायित्वम् अस्ति। गोमती-नदी लखनऊ-नगरस्य जीवन-धारा अस्ति, अतः लखनऊ-गोमती-इत्यनयोः सम्बन्धः नौसेनया सह प्रतीकात्मकरूपेण योजितः अस्ति। सः अपि उक्तवान् यत् गोमती-नामकः युद्धपोतः अपि अस्ति यः १९८८ वर्षे सेनायां सम्मिलितः अभवत्। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी-आदित्यनाथस्य प्रशंसां कुर्वन् सः उक्तवान् यत् उत्तरप्रदेशः सर्वेषु क्षेत्रेषु तीव्रगत्या उन्नतिं प्राप्नोति।
अस्मिन् अवसरे मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् लखनऊ-नगरं आगच्छन् प्रत्येकं जनः अत्र भारतस्य परम्परां सुरक्षा-सम्बद्धं केन्द्रं दृष्ट्वा गौरव-भावं अनुभवेत्। एषा ‘नौसेना-शौर्य-वाटिका’ तादृशेषु केन्द्रेषु नवीनतमं केन्द्रं जातम्। सः उक्तवान् यत् यदा भारतस्य सैनिकाः हिमप्रदेशे, मरुभूमौ, समुद्रे च देशस्य रक्षणं कुर्वन्ति तदा १४० कोटि-भारतीयाः निःशङ्कं विश्रामं लभन्ते।
उत्तरप्रदेश-पर्यटन-संस्कृति-मन्त्री जयवीर-सिंहः उक्तवान् यत् नौसेना-शौर्य-वाटिका भारतीय-नौसेनायाः वीर-सैनिकान् प्रति समर्पितं श्रद्धाञ्जलि-स्थलं अस्ति। एषा संग्रहालय-रूपेण यूनां मध्ये राष्ट्रभक्ति-सैन्यगौरवयोः भावना वर्धयिष्यति। एषा परियोजना भारतीय-नौसेना-उत्तरप्रदेश-पर्यटन-विभागयोः संयुक्त-प्रयत्नेन निर्मिता अस्ति, या ओपन-एयर-संग्रहालयस्य रूपेण विकसिताऽस्ति।
अत्र आगन्तुकानां कृते भारतीय-नौसेनायाः इतिहासः, युद्ध-अभियानानि, तकनीकी-दक्षता, समुद्री-सुरक्षा च विस्तरेण ज्ञातुं शक्यते। नौसेना-शौर्य-वाटिकायां सेवानिवृत्तः युद्धपोतः आईएनएस-गोमती प्रमुखाकर्षणं भवति, यस्मिन् एके-७२६ मध्यम-परास-तोपः, पनडुब्बी-रोधक-यन्त्राणि, प्रक्षेपण-यन्त्राणि तथा अन्यानि नौसैनिक-संरचनानि प्रदर्शितानि सन्ति। इदं स्थलम् बालकानां यूनां च मध्ये राष्ट्रसेवायाः प्रेरणां वर्धयिष्यति।
Hindusthan Samachar / Divya Ranjan