यदा वयं सुरक्षा-क्षेत्रे सुदृढाः भविष्यामः, तदा विश्वमपि अस्माभिः सह मैत्रीं करिष्यति : योगी-आदित्यनाथः
लखनऊ-नगरम्, ३० मे-मासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् यदा वयं सुरक्षा-क्षेत्रे सुदृढाः भविष्यामः, तदा विश्वमपि अस्माभिः सह मैत्रीं करिष्यति। दुर्बलस्य समक्षं कश्चिदपि न नमति। सः अवदत् यत् भारतस्य ऋषि-परम्परा अस्मान् प्रेरयति—“अह
शौर्य वाटिका के लोकार्पण के अवसर पर मंचासीन मुख्यमंत्री योगी आदित्यनाथ व रक्षा मंत्री राजनाथ सिंह


शौर्य वाटिका के लोकार्पण के अवसर पर रक्षा मंत्री राजनाथ सिंह व मुख्यमंत्री योगी आदित्यनाथ


लखनऊ-नगरम्, ३० मे-मासः (हि.स.)। मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् यदा वयं सुरक्षा-क्षेत्रे सुदृढाः भविष्यामः, तदा विश्वमपि अस्माभिः सह मैत्रीं करिष्यति। दुर्बलस्य समक्षं कश्चिदपि न नमति। सः अवदत् यत् भारतस्य ऋषि-परम्परा अस्मान् प्रेरयति—“अहिंसा परमो धर्मः, धर्महिंसा तथैव च” इति। अर्थात् सामान्य-जीवने अहिंसा एव सर्वोच्चः धर्मः भवेत्, किन्तु यदि कश्चित् देशस्य समाजस्य च सुरक्षायाः कृते संकटकारकः भवति, तर्हि तं प्रति अन्ततः बल-प्रयोगः आवश्यकः भवति। राष्ट्रस्य शत्रुं प्रति एषः एव अस्माकं धर्मः अस्ति, भारतीय-सेना च दृढतया तदेव करोति।

मुख्यमन्त्री योगी शनिवासरे राजधानी-लखनऊ-नगरे द्व्यधिक-द्व्यकर-क्षेत्रे निर्मितायाः ‘नौसेना-शौर्य-वाटिकायाः’ (नौसेना-शौर्य-सङ्ग्रहालयस्य द्वितीय-चरणस्य) लोकार्पण-अवसरे उपस्थितान् सैन्य-अधिकारिणः, सैनिकान् जनसमूहं च सम्बोधयन् आसीत्। अस्मात् पूर्वं रक्षामन्त्री राजनाथ-सिंहेन मुख्यमन्त्रिणा सह अस्याः वाटिकायाः उद्घाटनं कृतम्। अस्मिन् अवसरे नौसेना-वाद्यवृन्दस्य अनुपमा प्रस्तुति श्रोतॄणां मनांसि मोहयामास।

मुख्यमन्त्री उक्तवान् यत् यदा चिन्तनं विशालं भवति तथा च व्यक्तिः महान् लक्ष्यं पुरस्कृत्य अग्रे गच्छति, तदा सकारात्मकः परिणामः समुपजायते, यः युवभ्यः नूतनाम् प्रेरणां प्रददाति। अस्यां वाटिकायां आगच्छद्भ्यः भारतीय-नौसेनायाः विषये विस्तृता सूचना प्राप्स्यते। अस्माकं सैनिकाः कथं विषमासु अनुकूलासु प्रतिकूलासु च परिस्थितिषु कार्यं कुर्वन्ति, एतदपि ज्ञातुं अवसरः भविष्यति। एषा जानकारी युवानां जीवने समस्याभिः सह संघर्षस्य प्रेरणां दास्यति। नौसेनायाः लक्ष्यं तस्याः विराट्-चिन्तनस्य प्रतीकं वर्तते। सः “नभः स्पृशं दीप्तम्” इत्यस्य आदर्श-वाक्यस्य उल्लेखं कृत्वा अवदत् यत् आकाशस्य उच्चतां स्प्रष्टुं विशाल-चिन्तनमपि आवश्यकम्। सङ्कीर्ण-चिन्तनेन भावेन वा महत् लक्ष्यं प्राप्तुं न शक्यते।

योगी-आदित्यनाथः अवदत् यत् अस्माकं मनसि सेना-यूनिफॉर्मधारि-बलान् प्रति च सम्मानस्य भावः भवेत्। यदा भारतीय-सैनिकः शून्यात् अधः तापमाने, मरुस्थलस्य दाहक-उष्णतायां समुद्रस्य ऊर्मीणां च सम्मुखे स्थित्वा सीमासु रक्षण-कार्यं करोति, तदा १४०-कोटि-भारतीयाः निश्चिन्ततया निद्रां कुर्वन्ति।

मुख्यमन्त्री उक्तवान् यत् सुरक्षायाः उत्तमे वातावरणे एव जनकल्याण-विकास-योजनाः प्रभावी-रीत्या प्रवर्तितुं शक्नुवन्ति। सः अवदत् यत् २०१७ तम-वर्षात् पूर्वम् उत्तरप्रदेशे प्रतिदिनं निषेधाज्ञा (कर्फ्यू) प्रवर्तते स्म। व्यावसायिक-माफिया-अपराधिनश्च जनानां जीवनं दुष्करं कृतवन्तः। असुरक्षिते वातावरणे विकासस्य निवेशस्य च सम्भावनाः क्षीणाः अभवन्। किन्तु यदा अस्माकं सैनिका: सुरक्षा: प्रति प्रतिबद्धतया स्वकर्तव्यं निर्वहन्ति, तदा नागरिकानामपि कर्तव्यं भवति यत् ते तेषां प्रति सम्मानं प्रदर्शयेयुः।

मुख्यमन्त्री अवदत् यत् लखनऊ-नगरे एकस्मिन् पार्श्वे राष्ट्र-प्रेरणा-स्थलम् अस्ति, यस्य उद्घाटनं प्रधानमन्त्री रक्षामन्त्री च गत-वर्षस्य २५ दिसम्बर-दिने कृतवन्तौ। अपरस्मिन् पार्श्वे नौसेना-सङ्ग्रहालयस्य रूपेण भारतीय-सेनायाः शौर्य-पराक्रमयोः अद्भुतं केन्द्रम् अपि प्राप्तम्। अस्य विस्तारः अपि भविष्यति।

अस्मिन् अवसरे नौसेना-अध्यक्षः एडमिरल दिनेश-के.त्रिपाठी, उपमुख्यमन्त्रिणौ केशव-प्रसाद-मौर्यः ब्रजेश-पाठकः च, राज्यसभा-सांसदौ डॉ.दिनेश-शर्मा ब्रजलालः च, पर्यटन-संस्कृति-मन्त्री जयवीर-सिंहः, महापौरा सुषमा-खर्कवालः, विधायकाः योगेश-शुक्लः, राजेश्वर-सिंहः, ओपी-श्रीवास्तवः, अमरेश-कुमारः, जय-देवी, विधान-परिषदः सदस्याः अवनीश-सिंहः, मुकेश-शर्मा, पवन-सिंह-चौहानः, उमेश-द्विवेदी, लालजी-प्रसाद-निर्मलः, रामचन्द्र-प्रधानः इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan