Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ३० मे-मासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-जनपदे स्थिते काशी-हिन्दू-विश्वविद्यालये कलासंकायस्य अन्तर्गतं सञ्चाल्यमानेषु अंशकालिक-डिप्लोमा-पाठ्यक्रमेषु प्रवेशार्थम् आवेदनानि १७ जून-मासपर्यन्तम् आमन्त्रितानि सन्ति।
इण्टरमीडिएट-परीक्षायाम् उत्तीर्णाः छात्राः अत्र प्रवेशं प्राप्तुं शक्नुवन्ति। प्रवेशः इण्टरमीडिएट-परीक्षायाः अङ्कानां मेरिट्-आधारेण भविष्यति। ‘पार्ट-टाइम-डिप्लोमा-इन-ऑफिस-मैनेजमेंट’ तथा ‘पार्ट-टाइम-डिप्लोमा-इन-टूरिज्म-मैनेजमेंट’ इति नामकौ उभौ पाठ्यक्रमौ द्विवर्षीय-अवधियुक्तौ स्तः। एतेषु पाठ्यक्रमेषु प्रवेशेन सह छात्राः विश्वविद्यालयस्य अन्येषु नियमित-पाठ्यक्रमेष्वपि प्रवेशं ग्रहीतुं शक्नुवन्ति।
शनिवासरे एषा सूचना विश्वविद्यालयस्य जनसम्पर्क-कार्यालयेन प्रदत्ता। उक्तं यत् प्रवेशसम्बद्धाः अन्याः सर्वाः विस्तृत-सूचनाः विश्वविद्यालयस्य जालपुटे उपलब्धाः सन्ति। विश्वविद्यालयस्य जालस्थले बुलेटिन् अपि प्रकाशितः अस्ति, यस्मिन् प्रवेश-प्रक्रिया, प्रवेश-शुल्कम् इत्यादीनि सर्वाणि विवरणानि उपलब्धानि सन्ति।
Hindusthan Samachar / Divya Ranjan