Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ३० मे-मासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-जनपदे नगरनिगमेन नगरीय-क्षेत्रस्य उद्यानानां कायाकल्प-सौन्दर्यीकरणयोः दिशि तीव्रतया कार्यं प्रारब्धम्। अस्याः श्रृङ्खलायाः अन्तर्गतं सिगरा-स्थितस्य शहीद-उद्यानस्य आधुनिक-सुविधाभिः युक्तीकरणस्य कार्यं प्रवर्तते। नगरनिगमस्य जनसम्पर्क-कार्यालयस्य अनुसारं शहीद-उद्यानस्य अस्य कायाकल्पस्य कृते प्रायः ८.५ कोटि-रूप्यकाणां व्ययः क्रियते।
उद्याने बालकानां कृते अत्याधुनिक-दोलानि, आकर्षक-जलवर्षकः तथा प्रातःभ्रमणं कुर्वतां जनानां कृते विशेष-पथस्य निर्माणं क्रियते। तदतिरिक्तं सम्पूर्ण-परिसरे आधुनिक-दीप-व्यवस्था उत्तम-उपवेशन-व्यवस्था च सुनिश्चितीक्रियते। अपरं १.५ कोटि-रूप्यकाणां व्ययेन एका डिजिटल-पुस्तकालयः अपि निर्मीयते। एषः पुस्तकालयः छात्राणां ज्ञानप्रेमिणां च कृते शान्तं उच्च-प्रौद्योगिकी-युक्तं वातावरणं प्रदास्यति।
नगर-आयुक्तः हिमांशु-नागपालः शुक्रवासरे शहीद-उद्यानस्य स्थलीय-निरीक्षणम् अपि कृतवान्। अस्मिन् अवसरे तेन अधिकारिभ्यः कार्यदायि-संस्थायै च कठोर-निर्देशाः दत्ताः यत् सौन्दर्यीकरणस्य कार्यं आगामी-द्विमासाभ्यन्तरे सर्वथा पूर्णं क्रियताम्, येन नगरवासिभ्यः शीघ्रमेव आधुनिक-सुन्दर-उद्यानस्य उपहारः प्रदातुं शक्येत। आशा व्यक्तीक्रियते यत् अगस्त-मासपर्यन्तं शहीद-उद्यानस्य स्वरूपं पूर्णतया परिवर्तितं भविष्यति।
Hindusthan Samachar / Divya Ranjan