Enter your Email Address to subscribe to our newsletters

लखनऊ, 30 मईमासः (हि.स.)।
देशे पेट्रोलियमपदार्थानाम् पेट्रोलडीजल इत्येतयोः मूल्यवृद्धेः अनन्तरम् अधुना उत्तरप्रदेशस्य जनतायै विद्युत्विभागस्य आघातः प्राप्तः। अत्र अधुना विद्युतुपभोक्तृभ्यः ‘फ्यूलएण्डपावरपरचेसएडजस्टमेण्टसरचार्ज’ इत्यस्य रूपेण स्वबिले दशप्रतिशतम् अतिरिक्तशुल्कं दातव्यं भविष्यति। विभागेन आदेशः निर्गतः।
उत्तरप्रदेशपावरकॉर्पोरेशनलिमिटेड् इत्यस्य पक्षतः राज्ये विद्युत्बिले दशप्रतिशतात्मकः अतिरिक्तः ‘फ्यूलएण्डपावरपरचेसएडजस्टमेण्टसरचार्ज’ एफपीपीएएस इति नाम्ना प्रवर्तितः। अस्य प्रवर्तनात् विद्युतुपभोक्तॄणां व्ययभारः वर्धिष्यते। विद्युत्विभागस्य अस्य आदेशस्य अनुसारं ईन्धनअधिभारकारणात् जूनमासात् आरभ्य उपभोक्तारः स्वविद्युत्बिले दशप्रतिशताधिकं भुगतानं करिष्यन्ति।
उल्लेखनीयम् अस्ति यत् जूनमासे उष्णतायाः कारणेन यदा विद्युतुपभोगः स्वाभाविकरूपेण वर्धिष्यते तदा विद्युत्बिले दशप्रतिशतात्मकम् अतिरिक्तधनं लक्षशः उपभोक्तॄन् प्रभावितं करिष्यति। कथ्यते यत् विद्युतुत्पादनस्य क्रयस्य च व्यये वृद्धिः जाता अस्ति। अस्यैव पूर्त्यर्थं जूनमासे ईन्धनअधिभारस्य निर्णयः यूपीपीसीएल इत्यनेन कृतः। एषः राशिः उपभोक्तृभ्यः एव संग्रहीष्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani