उत्तराखंड लोक सेवा आयोग : प्रवक्ता संवर्गः -हिंद्याः परीक्षायां 30 प्रतिशतात् अधिकाः अभ्यर्थिनः अनुपस्थिताः
हरिद्वारम्, 30 मईमासः (हि.स.)। उत्तराखण्ड लोकसेवा आयोगस्य तत्त्वावधाने प्रवक्ता (हिन्दी) परीक्षा सफलतया सम्पन्ना। अस्यां परीक्षायां ३० प्रतिशताधिकाः अभ्यर्थिनः अनुपस्थिताः आसन्। उत्तराखण्ड लोकसेवा आयोगस्य सचिवः अशोककुमार पाण्डेयः अवगतवान् यत् आय
लोक सेवा आयोग भवन चित्र


हरिद्वारम्, 30 मईमासः (हि.स.)।

उत्तराखण्ड लोकसेवा आयोगस्य तत्त्वावधाने प्रवक्ता (हिन्दी) परीक्षा सफलतया सम्पन्ना। अस्यां परीक्षायां ३० प्रतिशताधिकाः अभ्यर्थिनः अनुपस्थिताः आसन्।

उत्तराखण्ड लोकसेवा आयोगस्य सचिवः अशोककुमार पाण्डेयः अवगतवान् यत् आयोगस्य अध्यक्षस्य अनिलकुमार राणस्य मार्गदर्शनेन उत्तराखण्डविशेषाधीनस्थशिक्षा (प्रवक्ता संवर्ग ‘समूह-ग’) सेवा (सामान्य तथा महिला शाखा) अन्तर्गत विषयवार लिखित (वस्तुनिष्ठ) परीक्षा-२०२५ अन्तर्गत हिन्दीविषयस्य परीक्षा शनिवासरे, ३० मई २०२६ तमे दिने सफलतया आयोजिता।

एषा परीक्षा हरिद्वार तथा हल्द्वानी नगरेषु स्थितेषु कुल १७ परीक्षा केन्द्रेषु द्वयोः सत्रयोः सम्पन्ना।

उक्तायां परीक्षायामाहत्य पंजीकृताः ७४१६ अभ्यर्थिनः आसन्। तेषु प्रथमसत्रे (हिन्दी-I) ५१६३ अभ्यर्थिनः उपस्थिताः अभवन्, द्वितीयसत्रे (हिन्दी-II) च ५१६१ अभ्यर्थिनः उपस्थिताः अभवन्। उपस्थितिप्रतिशतं ६९.५९ आसीत्।

अशोककुमार पाण्डेयः उक्तवान् यत् परीक्षायाः आयोजनं शान्तिपूर्णतया सुव्यवस्थितरीत्या च सम्पन्नम्।

Hindusthan Samachar / Dheeraj Maithani