दुष्प्रचारेषु ध्यानं मा ददत — अन्नपूर्णा-योजनायाः आवेदनपत्राणि पूरयितुं सर्वकारीय-प्रतिनिधयः गृहं गृहं गमिष्यन्ति : मुख्यमन्त्री
कोलकातानगरम्, ३० मे-मासः (हि.स.)। पश्चिमबङ्गाल-राज्यस्य मुख्यमन्त्री ममता बनर्जी अन्नपूर्णा-योजनां प्रति प्रसृतानाम् आशङ्कानां निराकरणं कुर्वती उक्तवती यत् आवेदनपत्र-पूर्तये सर्वकारीय-प्रतिनिधयः प्रत्येकं लाभार्थिन्याः गृहं गमिष्यन्ति। सा जनान् प्र
शुभेंदु अधिकारी


कोलकातानगरम्, ३० मे-मासः (हि.स.)। पश्चिमबङ्गाल-राज्यस्य मुख्यमन्त्री ममता बनर्जी अन्नपूर्णा-योजनां प्रति प्रसृतानाम् आशङ्कानां निराकरणं कुर्वती उक्तवती यत् आवेदनपत्र-पूर्तये सर्वकारीय-प्रतिनिधयः प्रत्येकं लाभार्थिन्याः गृहं गमिष्यन्ति। सा जनान् प्रति आह्वानं कृतवती यत् ते कस्याप्यफवाहायाः प्रभावं न स्वीकरोतु तथा योग्याभ्यः महिलाभ्यः योजनाया: लाभः अवश्यं प्रदास्यते इति विश्वासं कुर्वन्तु।

शनिवासरे प्रातः बिधाननगर-स्थिते चिकित्सालये आयोजिते गर्भाशय-ग्रीवा-कर्कट-रोग-टीकाकरण-कार्यक्रमे सहभागं कुर्वती मुख्यमन्त्री उक्तवती यत् अन्नपूर्णा-योजनायाः प्रथम-चरणस्य धनराशिः अग्रिम-बुधवासरे लाभार्थिनां धनागारेषु प्रेषयिष्यते।

सा उक्तवती— “आवेदनपत्र-पूर्तये सर्वकारीय-प्रतिनिधयः गृहे गृहे गमिष्यन्ति तथा आवश्यक-प्रक्रियां सम्पन्नां करिष्यन्ति। कस्यामपि अफवाहायां ध्यानं दातुं आवश्यकता नास्ति। सर्वाः पात्र-लाभार्थिन्यः योजनाया लाभं प्राप्स्यन्ति।”

मुख्यमन्त्री उक्तवती यत् योजनाया धनराशिः वास्तविक-लाभार्थिनः एव प्राप्नुयुः इति सुनिश्चितीकरणाय सर्वकारः प्रयत्नशीलः अस्ति। अपात्र-व्यक्तीनां पुरुषाणां वा योजनाया लाभः न भवेत् इति हेतोः आवश्यक-परीक्षणं क्रियते।

उल्लेखनीयं यत् विधानसभानिर्वाचनात् पूर्वं भारतीय-जनता-पक्षेण स्वस्य सङ्कल्पपत्रे अन्नपूर्णा-योजनायाः प्रारम्भस्य वचनं दत्तम् आसीत्। अस्याः योजनायाः अन्तर्गतं राज्यस्य महिलाभ्यः प्रतिमासं त्रिसहस्र-रूप्यकाणां प्रदानस्य घोषणा कृता आसीत्। सत्तायाम् आगमनानन्तरं राज्य-सर्वकारेण योजनायाः आवेदनपत्रं प्रकाशितम्।

तथापि एकादश-पृष्ठात्मकस्य आवेदनपत्रस्य अन्तर्गतं भूमिसम्बद्ध-तथ्येभ्यः आरभ्य परिवार-सदस्यानां धनागार-विवरणपर्यन्तं बहवः विवरणानि याचितानि सन्ति, अतः केचन जनाः एतत् जटिलम् इति मन्यन्ते। तेषां मते एषा प्रक्रिया अन्याभ्यः सामाजिक-सहायता-योजनाभ्यः अपेक्षया अधिक-विस्तृता अस्ति।

मुख्यमन्त्री पुनः उक्तवती यत् तस्याः सर्वकारः सङ्कल्पपत्रे कृतानां सर्वेषां प्रतिज्ञानां पूर्त्यर्थं प्रतिबद्धः अस्ति तथा अन्नपूर्णा-योजना तस्याः दिशायाः एकः महत्त्वपूर्णः प्रयासः अस्ति।

सर्वकारस्य अनुसारं पञ्चविंशति-वर्षात् आरभ्य षष्टि-वर्ष-पर्यन्तं वयस्काः महिलाः अस्याः योजनायाः लाभं प्राप्तुं शक्नुवन्ति। किन्तु आयकर-दात्र्यः, सर्वकारीय-कर्मचारिण्यः, नियमित-वेतन-भोगिन्यः तथा निवृत्ति-वेतन-प्राप्तारः महिलाः अस्याः योजनायाः परिधौ न भविष्यन्ति।

योजनायाः आवेदनपत्रे परिवारस्य आर्थिक-सामाजिक-स्थितेः विषये विस्तृत-विवरणं याच्यते। अस्य कारणात् आवेदन-प्रक्रियायाः सरलीकरणस्य मागः अपि केषाञ्चित् वर्गाणां पक्षतः उत्थापितः अस्ति।

पूर्वमेव मन्त्रिणी अग्निमित्रापाल: अपि आवेदन-प्रक्रियाविषये जनान् आश्वासितवती आसीत्। अधुना मुख्यमन्त्रिणा अपि योजनां प्रति उत्पन्नानां शङ्कानां निराकरणस्य प्रयासः कृतः अस्ति।

Hindusthan Samachar / Divya Ranjan