पश्चिम बंगाले 7.65 लक्षकिशोरीभ्यः सर्वाइकलकर्करोगाद्रक्षणस्य टीकाकरणाभियानं शुभारब्धम्
कोलकाता, 30 मईमासः (हि.स.)। पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी शनिवासरे राज्यव्यापि ह्यूमन्-पैपिलोमावायरस् (एचपीवी) टीकाकरण-अभियानस्य शुभारम्भम् अकरोत्। अस्य अभियानस्य उद्देश्यं किशोरीभ्यः सर्वाइकल्-कर्क-रोगात् संरक्षणं प्रदातुम् अस्त
शुभेंदु अधिकारी


कोलकाता, 30 मईमासः (हि.स.)।

पश्चिम-बङ्गालस्य मुख्यमन्त्री शुभेन्दुअधिकारी शनिवासरे राज्यव्यापि ह्यूमन्-पैपिलोमावायरस् (एचपीवी) टीकाकरण-अभियानस्य शुभारम्भम् अकरोत्। अस्य अभियानस्य उद्देश्यं किशोरीभ्यः सर्वाइकल्-कर्क-रोगात् संरक्षणं प्रदातुम् अस्ति। राज्य-शासनेन अस्य अन्तर्गतं प्रायः ७.६५ लक्ष-लाभार्थिनी-किशोरीणां समावेशस्य लक्ष्यं निर्धारितम् अस्ति।

अधिकारिणाम् अनुसारम् एषा पहलः केन्द्र-शासनेन अस्मिन् वर्षे आरब्धस्य राष्ट्रिय-एचपीवी-टीकाकरण-कार्यक्रमस्य अनुरूपा अस्ति। अभियानस्य उद्देश्यं सर्वाइकल्-कर्क-रोगं सार्वजनिक-स्वास्थ्यस्य कृते गम्भीर-संकटरूपेण समाप्तुं योगदानं दातुम् अस्ति।

कार्यक्रमस्य अन्तर्गतं १४ वर्षाणि पूर्णीकृत्य अपि १५ वर्ष-वयः पर्यन्तं न प्राप्ताः किशोरीभ्यः निःशुल्क-टीकाकरणं क्रियते। पात्राभ्यः किशोरीभ्यः क्वाड्रिवैलेंट्-गार्डासिल्-४ वैक्सीनस्य एका मात्रा शासकीय-स्वास्थ्य-केन्द्रेषु उपलब्धा भविष्यति।

राज्य-शासनेन टीकाकरण-अभियानस्य कृते ८८१ शासकीय-स्वास्थ्य-संस्थानानि नामितानि सन्ति। एतेषु चिकित्सामहाविद्यालयाः, जिल्लाचिकित्सालयाः, उपमण्डलीयचिकित्सालयाः, राज्य-सामान्यचिकित्सालयाः तथा ब्लॉक्-प्राथमिक-स्वास्थ्य-केन्द्राणि सम्मिलितानि सन्ति।

स्वास्थ्यविभागस्य अधिकारिणः वदन्ति यत् अनेन अभियानने किशोरीणां सर्वाइकल्-कर्करोग-संकटात् संरक्षणे साहाय्यं भविष्यति तथा महिलानां स्वास्थ्य-संरक्षणस्य दिशि एतत् महत्त्वपूर्णं पदं सिद्धं भविष्यति।

----------------

Hindusthan Samachar / Dheeraj Maithani