परीक्षाणां संचालने केंद्र सर्वकारः पूर्णतया विफलो, यूनां भविष्येण सह वंचना : विनय कुमारः
शिमला, 30 मईमासः (हि.स.)। प्रदेशकाङ्ग्रेसाध्यक्षः विनयकुमारः केन्द्रस्य भाजपासर्वकारस्य विरुद्धं तीक्ष्णं प्रहारं कुर्वन् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशं विश्वगुरुरूपेण स्थापयितुं विशालतथ्यानामुपस्थापनं करोति, किन्तु तस्य सर्वकारः एक
प्रदेश कांग्रेस अध्यक्ष विनय कुमार


शिमला, 30 मईमासः (हि.स.)।

प्रदेशकाङ्ग्रेसाध्यक्षः विनयकुमारः केन्द्रस्य भाजपासर्वकारस्य विरुद्धं तीक्ष्णं प्रहारं कुर्वन् उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशं विश्वगुरुरूपेण स्थापयितुं विशालतथ्यानामुपस्थापनं करोति, किन्तु तस्य सर्वकारः एकामपि राष्ट्रियपरीक्षां सम्यग्रूपेण सम्पन्नां कर्तुं समर्थः नास्ति।

तेन नीटपरीक्षायाः अनन्तरम् अधुना सीयूईटी कॉमनयूनिवर्सिटीएन्ट्रेन्सटेस्ट् इत्यस्मिन् उत्पन्नानां तकनीकीदोषाणां विषये चिन्ता व्यक्तीकृता तथा उक्तं यत् एषा अत्यन्तम् आश्चर्यजनका दुर्भाग्यपूर्णा च स्थितिः अस्ति यत् देशे निरन्तरं परीक्षाः विवादानाम् अव्यवस्थानां च शिकाराः भवन्ति। तेन उक्तं यत् प्रश्नपत्रप्रस्रवणेन तकनीकीविघ्नैश्च कारणीकृताः परीक्षानिरस्तीकरणनिर्णयाः केन्द्रसर्वकारस्य विफलतां प्रदर्शयन्ति, यस्य दुष्परिणामः देशस्य लक्षशः युवानः भुञ्जते।

विनयकुमारः शनिवासरे प्रदत्ते वक्तव्ये आरोपितवान् यत् भाजपासर्वकारः युवानां भविष्येन सह क्रीडां करोति। तेन उक्तं यत् काङ्ग्रेसः एतादृशम् अन्यायं कस्यापि मूल्येन न सहिष्यते तथा युवानां हितसंरक्षणार्थं सर्वेषु स्तरषु संघर्षं करिष्यति।

नगरनिगमचुनावेषु काङ्ग्रेसस्य विजयदावा

प्रदेशकाङ्ग्रेसाध्यक्षेन ३१ मई दिनाङ्के घोषितव्येषु प्रदेशस्य चतुर्षु नगरनिगमेषु निर्वाचनपरिणामेषु अपि विश्वासः व्यक्तीकृतः। तेन उक्तं यत् मण्डी धर्मशाला पालमपुर सोलननगरनिगमेषु काङ्ग्रेसपक्षस्य स्पष्टा प्रगति भविष्यति तथा परिणामाः दलस्य पक्षे आगमिष्यन्ति।

तेन उक्तं यत् हालसंपन्नेषु नगरनिकायपञ्चायतीराजसंस्थानां निर्वाचनषु काङ्ग्रेसपक्षाय जनतायाः व्यापकसमर्थनं प्राप्तम्, येन स्पष्टं भवति यत् प्रदेशस्य जनतायाः विश्वासः काङ्ग्रेसपक्षे निरन्तरं दृढः भवति। तेन उक्तं यत् काङ्ग्रेसः प्रदेशे जनकल्याणस्य समग्रविकासस्य च कृते पूर्णप्रतिबद्धतया कार्यं करोति।

विनयकुमारः उक्तवान् यत् भाजपायाः प्रदेशविरोधिमुखं अधुना पूर्णतया जनतायाः समक्षं प्रकाशितम् अस्ति। तेन आरोपितं यत् भाजपायै हिमाचलप्रदेशस्य हितानां काचिदपि चिन्ता नास्ति। तेन उक्तं यत् आरडीजी निरुद्ध्य भाजपया प्रदेशस्य सह अन्यायः कृतः, यं प्रदेशस्य जनता कदापि न विस्मरिष्यति तथा आगामिकाले भाजपादलस्य तस्य राजनैतिकहानिः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani