पितुस्त्यागस्य भावुकीकथामाधृत्य ख्याति चलचित्रं समर्पित फादर्स लव इत्येतत्
जयपुरम्, 30 मईमासः (हि.स.)। पितुः प्रेम, त्याग तथा संघर्षे आधारितायाः हिन्दी-विशेषचलच्चित्रस्य ‘समर्पित : फादर्स लव’ इत्यस्य कलाकारदलम् जयपुरनगरे माध्यमप्रतिनिधिभिः सह संवादम् अकरोत्। चलचित्रस्य प्रचारप्रसारस्य अन्तर्गतं आयोजिते विशेषसंवादकार्यक्
पिता के त्याग की भावुक कहानी लेकर आ रही फिल्म समर्पित फादर्स लव


जयपुरम्, 30 मईमासः (हि.स.)।

पितुः प्रेम, त्याग तथा संघर्षे आधारितायाः हिन्दी-विशेषचलच्चित्रस्य ‘समर्पित : फादर्स लव’ इत्यस्य कलाकारदलम् जयपुरनगरे माध्यमप्रतिनिधिभिः सह संवादम् अकरोत्। चलचित्रस्य प्रचारप्रसारस्य अन्तर्गतं आयोजिते विशेषसंवादकार्यक्रमे कलाकाराः तथा निर्मातारः चलचित्रस्य कथा, उद्देश्यं तथा सामाजिकप्रयत्नविषये जानकारीम् असाझयन्। मुख्याभिनेता अंकितयादवः, अभिनेत्री कोमलहरपालानी, अभिनेता अमितसक्सेना च अवदन् यत् चलचित्रस्य निर्माणं नैशाफिल्म्स इत्यस्य ध्वजतले कृतम् अस्ति। चलचित्रस्य लेखनं निर्देशनं च एहसानखानः कृतवान्, यदा निर्माता साक्षीयादवः अस्ति। चलचित्रम् १९ जून २०२६ दिनाङ्के देशव्यापिरूपेण चलच्चित्रगृहेषु प्रदर्शितं भविष्यति।

चलच्चित्रं तादृशस्य पितुः भावनात्मकयात्रां प्रदर्शयति, यः स्वसन्तानानां उत्तमभविष्याय प्रत्येकं संघर्षं, त्यागं तथा कठिनतां सस्मितं स्वीकुरुते। निर्मातृभिः उक्तं यत् चलचित्रं पारिवारिकमूल्यानां तथा सम्बन्धानां संवेदनशीलतां बृहद्पटले प्रस्तुतं करिष्यति। चलचित्रे मुख्यभूमिकायां अंकितयादवः तथा कोमलहरपालानी दृश्येते। तथा जयपुरनगरस्य कलाकाराः अमितसक्सेना, आंचलपारिख, सुरेन्द्रयादवः तथा देवेन्द्रगुप्तः अपि महत्त्वपूर्णाः भूमिकाः निर्वहितवन्तः। एतेषां अतिरिक्तं मीतवर्मा, देवव्यासः, प्राशिकाशर्मा, जावेदहैदरः तथा अभिनेत्री जयाभट्टाचार्या अपि चलचित्रस्य भागाः सन्ति।

चलच्चित्रस्य गीतानि प्रसिद्धगायकः शाहिदमाल्या अगायत्, यानि प्रदर्शनात् पूर्वमेव दर्शकेषु चर्चाविषयाः अभवन्। अस्मिन् अवसरे मुख्याभिनेता अंकितयादवः, अभिनेत्री कोमलहरपालानी, अभिनेता अमितसक्सेना, बॉलिवुडलेखकः इकरामअख्तरः, बॉलिवुडबाबा-संस्थापकः नवीनश्रीवास्तवः, राजेशपेसवानी, ललितसक्सेना, अनुरागशर्मा सहित चलचित्रस्य सम्पूर्णदलम् उपस्थितम् आसीत्। कलाकाराः माध्यमप्रतिनिधीनां प्रश्नानां उत्तराणि दत्त्वा चलचित्रसम्बद्धान् अनुभवान् अपि असाझयन्। अस्मिन् समये चलचित्रस्य विशेषप्रमो अपि माध्यमानां समक्षं प्रदर्शितः।

आयोजकैः उक्तं यत् चलचित्रे अधिकांशकलाकाराः राजस्थानप्रदेशात् सन्ति, येषां चयनं बॉलिवुडबाबा इत्यस्य माध्यमेन कृत्वा चलचित्रे अवसरः प्रदत्तः। चलचित्रस्य महान् विशेषगुणः तस्य सामाजिकउद्देश्यं अस्ति। निर्माता साक्षीयादवः तथा नैशाफिल्म्ससमूहः घोषणा कृतवन्तौ यत् चलचित्रस्य नेट् बॉक्स ऑफिस आयस्य ५० प्रतिशतं भागः कर्कटरोगपीडितानां उपचाराय स्वास्थ्यसहायतायै च दानरूपेण प्रदास्यते। चलचित्रजगति एषा पहल सामाजिकउत्तरदायित्वस्य दिशि महत्त्वपूर्णं पदक्षेपं मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani