Enter your Email Address to subscribe to our newsletters

भागलपुरम्, ३१ मे-मासः (हि.स.)। भागलपुर-समाहरणालय-परिसरे स्थिते समीक्षा-भवने विश्वप्रसिद्धस्य श्रावणी-मेलापक-२०२६ इत्यस्य सज्जानां तथा अन्यासां विकास-योजनानां विषये रविवासरे उच्चस्तरीया समीक्षासभा आयोजिता। सभायाः अध्यक्षतां मुख्यमन्त्री सम्राट-चौधरी अकरोत्।
सभायां मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् श्रावणी-मेलापक-२०२६ इत्यस्य सर्वाः सज्जा: समयबद्ध-रीत्या गुणवत्तापूर्णतया च सम्पन्नाः क्रियन्ताम्। सः उक्तवान् यत् श्रद्धालुभ्यः उत्तम-व्यवस्था सुरक्षित-पर्यावरणं च प्रदातुं सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति।
मुख्यमन्त्री अवदत् यत् श्रावणी-मेलापकस्य अवधौ देश-विदेशेभ्यः बहुसंख्यकाः श्रद्धालवः आगच्छन्ति। अतः तेषां सुरक्षार्थं पर्याप्त-आरक्षक-बलस्य नियुक्तिः सुनिश्चितीक्रियताम्। तेन सह मेलापक-अवधौ चिकित्साव्यवस्थां सुदृढां कर्तुं पर्याप्त-संख्यायां चिकित्सकानां नियुक्तेः निर्देशाः अपि प्रदत्ताः।
सः सुईया-कटोरिया-चानन-इत्यादिषु कांवरिया-पथे स्थितानां धर्मशालानां चेन-सिस्टम अन्तर्गतं सुव्यवस्थापनं कृत्वा ताः पर्यटन-नीत्या सह सम्बद्धाः कर्तुं कथितवान्। मुख्यमन्त्री एतदपि उक्तवान् यत् सर्वाः धर्मशालाः पीपीपी-मोड अन्तर्गतं व्यवस्थिताः क्रियन्ताम्, येन ताः वर्षपर्यन्तं सक्रियाः उपयोगिन्यश्च भवेयुः।
मुख्यमन्त्री निर्देशितवान् यत् सुल्तानगञ्ज, तारापुर, बेलहर, सुईया, कटोरिया, चानन इत्यादिषु प्रमुख-स्थलेषु पर्याप्त-आरक्षक-बलस्य नियुक्तिः क्रियताम्, येन यातायात-अवरोधस्य स्थितिः न भवेत्। सः उक्तवान् यत् कांवरिया-पथे विद्युत् जीर्ण-ताराः मेलापक-प्रारम्भात् पूर्वमेव परिवर्तिताः स्युः तथा मार्गाः सुगमाः क्रियेरन्।
मुख्यमन्त्री एतदपि निर्देशितवान् यत् १५ जून-पर्यन्तं सर्वे निष्क्रियाः चापाकलाः पुनः सञ्चालिताः क्रियन्ताम् तथा च आपत्कालीन-स्थितौ घोषणाप्रणाली (माइकिंग-प्रणाली) सक्रियता पूर्वकं कार्यरताऽस्तु, येन श्रद्धालुभ्यः समये एव सतर्कता-सूचनाः प्रदातुं शक्येरन्। तेन सह सर्वेषु निर्माण-कार्येषु तूफान-वज्रपातादीनां समस्यानाम् अपि समुचितं ध्यानं धार्यताम् इति निर्देशः दत्तः।
मुख्यमन्त्री खाद्य-पदार्थानां गुणवत्तायाः नियमित-अनियमित-परीक्षणयोः सुनिश्चितीकरणस्य निर्देशान् अपि प्रदत्तवान्। सः उक्तवान् यत् कांवर-यात्रा-मार्गेषु गङ्गा-घट्टेषु च शुद्ध-पेयजलस्य, स्वच्छ-शौचालयानाम्, वस्त्र-परिवर्तन-कक्षाणाम्, पर्याप्त-प्रकाश-व्यवस्थायाः तथा जनसमूह-नियन्त्रणस्य सर्वे आवश्यक-प्रबन्धाः समये एव पूर्णाः क्रियन्ताम्।
अस्यां सभायां पथ-निर्माण-मन्त्री कुमार-शैलेन्द्रः, सांसदः अजयकुमार-मण्डलः, सांसदः गिरधारी-यादवः, विधायकः मिथुनकुमारः, विधायकः ललितनारायण-मण्डलः, विधायकः शुभानन्द-मुकेशः, विधायकः रोहित-पाण्डेयः, विधायकः मुरारी-पासवानः, विधान-परिषदः सदस्यः विजयकुमार-सिंहः, विधान-परिषदः सदस्यः डाॅ. एन.के. यादवः, विधान-परिषदः सदस्यः डाॅ.संजीवकुमार-सिंहः तथा अन्ये जनप्रतिनिधयः वरिष्ठ-अधिकारिणश्च उपस्थिताः आसन्। पटनानगरात् वीडियो-सम्मेलन-माध्यमेन सम्बन्धित-विभागानां वरिष्ठ-अधिकारिणोऽपि सभायां सम्बद्धाः आसन्।
Hindusthan Samachar / Divya Ranjan