देशस्य तृतीयः सीडीएस-जनरलः एन.एस. राजा-सुब्रमणिः कार्यभारं स्वीकृतवान्
नवदेहली, ३१ मे-मास: (हि.स.)। देशस्य तृतीयः चीफ-ऑफ-डिफेन्स-स्टाफ (सीडीएस) इति पदे जनरलः एन.एस. राजा-सुब्रमणिः रविवासरे कार्यभारं स्वीकृतवान्। तस्मै साउथ-ब्लॉक-लॉन्स-स्थले गार्ड-ऑफ-ऑनर प्रदत्तः। नूतनः सीडीएस राष्ट्रिय-युद्ध-स्मारके पुष्पचक्रं अर्पितव
सीडीएस जनरल एनएस राजा सुब्रमणि गार्ड ऑफ ऑनर का निरीक्षण करते हुए


नवदेहली, ३१ मे-मास: (हि.स.)। देशस्य तृतीयः चीफ-ऑफ-डिफेन्स-स्टाफ (सीडीएस) इति पदे जनरलः एन.एस. राजा-सुब्रमणिः रविवासरे कार्यभारं स्वीकृतवान्। तस्मै साउथ-ब्लॉक-लॉन्स-स्थले गार्ड-ऑफ-ऑनर प्रदत्तः। नूतनः सीडीएस राष्ट्रिय-युद्ध-स्मारके पुष्पचक्रं अर्पितवान्। सः उक्तवान् यत् सशस्त्र-बलानां परिवर्तनाय संघटनात्मक-सुधाराणि प्रमुखं केन्द्रं भविष्यन्ति। आत्मनिर्भरता अस्माकं राष्ट्रीय-सुरक्षायाः मुख्यः स्तम्भः अस्ति। वयं स्वदेशीय-शस्त्राणां विकासं कृत्वा तानि शीघ्रं सेवायां प्रवेष्टुं यत्नं करिष्यामः।

सीडीएस-जनरलः एन.एस.राजा-सुब्रमणिः उक्तवान्— “चीफ-ऑफ-डिफेन्स-स्टाफ-पदभारं स्वीकृत्य अहं गौरवान्वितः अस्मि। सशस्त्र-बलेषु स्थापितस्य विश्वासस्य कृते वयं राष्ट्रस्य कृतज्ञाः स्मः। चिन्तन-कर्मणोः नवोन्मेषः अस्माकं क्षमता-वर्धनाय सहायकः भविष्यति। सैन्य-उद्योग-शैक्षणिक-संस्थाः, स्टार्टअप-तथा अनुसन्धान-परिसराणां मध्ये अधिकः सहयोगः आधुनिकीकरणस्य प्रमुखं कारणं भविष्यति। अस्माकं सशस्त्र-बलाः निरन्तरं व्यावसायिकतां तथा परिचालन-निर्णय-क्षमतां प्रदर्शयन्ति। वयं राष्ट्रस्य संप्रभुता-क्षेत्रीय-अखण्डतायाः रक्षणे दृढप्रतिज्ञाः स्मः।”

सः पूर्व-सीडीएस-जनरलः बिपिन-रावतः तथा जनरल-अनिल-चौहानः इत्येतयोः योगदानाय कृतज्ञतां प्रकटितवान्। सः उक्तवान् यत् सैनिकानां, नौसैनिकानां, वायुयोद्धृणां च साहसं तथा व्यावसायिकता अस्माभिः सम्माननीयम्। तेषां प्रशिक्षणं तथा कल्याणं अस्माकं प्रथम-प्राथमिकता भविष्यति। वयं बलिदानिनां, वीराणां च त्यागं सदैव स्मरिष्यामः।

सर्वकारेण १ जनवरीमासे २०२० तमे वर्षे त्रि-सेनानां समन्वयाय सीडीएस-पदस्य स्थापना कृता। ततः प्रथमः सीडीएस बिपिन-रावतः अभवत्, तस्य कार्यकालः १ जनवरी २०२० तः ८ दिसम्बर २०२१ पर्यन्तं आसीत्। तस्मात् परं ९ दिसम्बर २०२१ तः २९ सितम्बर २०२२ पर्यन्तं पदं रिक्तम् आसीत्। अनन्तरं जनरल-अनिल-चौहानः (सेवानिवृत्तः) द्वितीयः सीडीएस अभवत्, यस्य कार्यकालः ३० मे-मास: २०२६ तः समाप्तः, ततः अधुना तृतीयः सीडीएस रूपेण एन.एस. राजा-सुब्रमणिः नियुक्तः।

Hindusthan Samachar / Divya Ranjan