मुख्यमंत्री सायोऽद्य दुर्गबेमेतरा इत्येतयोर्जिल्लयोः भ्रमणे
रायपुरम् 31 मईमासः (हि.स.)। छत्तीसगढ़-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायोऽद्य रविवासरे दुर्ग-बेमेतरा-जिलयोः महत्त्वपूर्णदौरे भविष्यति। सः प्रातः एकादशवादने मुख्यमन्त्री-निवासे ‘मनोवार्ताकार्यक्रमस्य श्रवणं करिष्यति। ततः अनन्तरं मध्याह्ने द्वादशव
मुख्यमंत्री विष्णु देव साय


रायपुरम् 31 मईमासः (हि.स.)।

छत्तीसगढ़-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायोऽद्य रविवासरे दुर्ग-बेमेतरा-जिलयोः महत्त्वपूर्णदौरे भविष्यति। सः प्रातः एकादशवादने मुख्यमन्त्री-निवासे ‘मनोवार्ताकार्यक्रमस्य श्रवणं करिष्यति। ततः अनन्तरं मध्याह्ने द्वादशवादनार्धे दुर्ग-नगरं प्राप्य सुशासन-तिहार-अन्तर्गत-आयोजिते जनसमस्या-निवारण-शिविरे सहभागित्वं करिष्यति।

मुख्यमन्त्री अत्र सामान्य-नागरिकैः सह प्रत्यक्ष-संवादं करिष्यति तथा तेषां समस्याणां समाधानस्य दिशि पहलं करिष्यति। सहैव कोटि-रूप्यकाणां विविध-विकास-कार्याणां लोकार्पणं भूमिपूजनं च कृत्वा क्षेत्राय नवीनां विकास-सौगातं प्रदास्यति। अपराह्णे त्रिवादने सः सुशासन-तिहार-अन्तर्गत-अधिकारिणां समीक्षा-सभां गृहीत्वा योजनानां जनकल्याणकारी-कार्यक्रमाणां च प्रगतिम् अवलोकयिष्यति।

सायंकाले षड्वादने मुख्यमन्त्री बेमेतरा-जिल्लां प्राप्स्यति, यत्र मुख्यमन्त्री-कन्या-विवाह-योजना-कार्यक्रमे सहभागित्वं कृत्वा नवदम्पत्योः आशीर्वादं दास्यति। सहैव विविध-विकास-परियोजनानां भूमिपूजनं लोकार्पणं च कृत्वा जिलायाः विकासाय नवीनां गतिं प्रदास्यति। निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री रात्रौ नववादने रायपुरं प्रत्यागमिष्यति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani