Enter your Email Address to subscribe to our newsletters

नारायणपुरम्, ३१ मे-मास: (हि.स.)। छत्तीसगढ़-राज्यस्य नारायणपुर-जनपदे अबूझमाड़-अन्तर्गतं दूरस्थे इरकभट्टी-ग्रामे नक्सलवादस्य समाप्तेः पश्चात् नूतनं वातावरणं दृश्यते। पूर्वं नक्सल-प्रभावात् मुख्यधारायाः पृथक्कृतः अयं ग्रामः अधुना प्रथमवारं प्रधानमन्त्रिणः नरेन्द्रमोदी-महाभागस्य मासिक-रेडियो-कार्यक्रमस्य ‘मन की बात’ इत्यस्य सामूहिक-श्रवणं कृतवान्।
विशेषतया नक्सल-मुक्तेः पश्चात् प्रथमवारं छत्तीसगढ़-राज्यस्य मन्त्री ग्रामम् इरकभट्टीम् आगत्य सहस्राणां ग्रामीणानां मध्ये उपविश्य प्रधानमन्त्रिणः कार्यक्रमं श्रुतवान्।
नारायणपुर-विधायकः वनमन्त्री च केदार-कश्यप-महाभागः स्व-विधानसभा-क्षेत्रस्य अबूझमाड़-अन्तर्गतं दूरस्थे इरकभट्टी-ग्रामे प्रथमवारं गत्वा स्थानीय-ग्रामीणैः सह इमली-वृक्षस्य छायायां उपविश्य प्रधानमन्त्रिणः ‘मन की बात’ इति कार्यक्रमं श्रुतवान्। अस्मिन् कार्यक्रमे बालकाः, महिलाः, वृद्धाश्च सहिताः सहस्राणां ग्रामीणाः सम्मिलिताः अभवन्।
ग्रामीणाः प्रधानमन्त्रिणः विचारान् तथा देशस्य विकाससम्बद्धान् विषयान् सावधानतया श्रुतवन्तः। ‘मन की बात’ इत्यस्य १३४तम-एपिसोड-इत्यत्र प्रधानमन्त्रिणा एथलेटिक्स-क्रीडायां भारतस्य गौरवं वर्धयतां क्रीडकानां संघर्षः उपलब्धयश्च उल्लिखिताः, येन युवानः प्रेरिताः अभवन्।
मन्त्री केदार-कश्यपः उक्तवान् यत् पूर्वं अस्मिन् क्षेत्रे नक्सल-प्रभावः अतिशयेन आसीत्, येन जनाः भय-निराशयोः मध्ये जीवनं यापयन्ति स्म। विधायकः अपि अत्र आगमनं दुष्करम् आसीत्। अधुना स्थितिः परिवर्तिता अस्ति, शान्तेः वातावरणं च जायते। अस्मिन्नेव परिवर्तिते परिवेशे प्रथमवारं ग्रामीणाः सामूहिकरूपेण प्रधानमन्त्रिणः संवादं श्रुतवन्तः।
ग्राममध्ये इमली-वृक्षस्य अधः आयोजितं इदं कार्यक्रमं लोकतान्त्रिक-सहभागितायाः सामाजिक-परिवर्तनस्य च प्रतीकं जातम्। यस्य क्षेत्रस्य परिचयः पूर्वं भयेन शस्त्रेण च आसीत्, तत्र अधुना ग्रामीणाः स्वेच्छया एकत्र आगत्य राष्ट्र-प्रधानस्य विचारान् शृण्वन्ति। इरकभट्टी-ग्रामस्य अयं चौपालः अबूझमाड़े प्रत्यागते विश्वासे, शान्तौ तथा विकासे नूतनां कथां प्रकटयति।
Hindusthan Samachar / Divya Ranjan