कांग्रेस-महासचिवः जयराम-रमेशः सीबीएसई-उत्तरपुस्तिकानां बृहत्-तथ्य-लीक-इत्यस्य आरोपं कृतवान्
नवदेहली, ३१ मे-मास: (हि.स.)। कांग्रेस-महासचिवः (संचारः) जयराम-रमेशः सीबीएसई-कक्षा-१२ उत्तरपुस्तिकानां परीक्षणसम्बद्धे विवादे पुनः केन्द्रसर्वकारस्य आचरणं प्रति प्रश्नान् उत्थापितवान्। जयराम-रमेशः सामाजिक-माध्यम-प्लेटफार्म “एक्स” इत्यत्र उक्तवान् य
जयराम रमेश


नवदेहली, ३१ मे-मास: (हि.स.)। कांग्रेस-महासचिवः (संचारः) जयराम-रमेशः सीबीएसई-कक्षा-१२ उत्तरपुस्तिकानां परीक्षणसम्बद्धे विवादे पुनः केन्द्रसर्वकारस्य आचरणं प्रति प्रश्नान् उत्थापितवान्।

जयराम-रमेशः सामाजिक-माध्यम-प्लेटफार्म “एक्स” इत्यत्र उक्तवान् यत् इदं अत्यन्तं विशाल-परिमाणयुक्तं तथ्य-लीक इति अस्ति, येन प्रायः २० लक्ष-छात्राणां निजतायाः गम्भीरः संकटः उत्पन्नः। सः उक्तवान् यत् कोएम्प्ट-नामकस्य निर्माण्या: अक्षमता असंवेदनशीलता च पुनः प्रकटिता। सा एव निर्माणी अस्ति यस्यै सीबीएसई द्वारा आरएफपी-तकनीकी-शर्तानां परिवर्तनानन्तरं अनुबन्धः दत्तः आसीत्। एतेन परिवर्तनेन सम्भवतः कोएम्प्ट-निर्माणी लाभं प्राप्तवती।

रमेशः उत्तरपुस्तिकासु दृश्यमानानां कागदस्य म्रोटनचिह्नानां तथा छायासदृशचिह्नानां अपि उल्लेखं कृतवान्। सः उक्तवान् यत् एतानि चिह्नानि प्रायः मोबाइल-दूरभाष-द्वारा कृत-स्कैनिङ्ग-इत्यत्र दृश्यन्ते, न तु स्कैनिङ्ग-यन्त्रैः। तृतीये आरएफपी-प्रस्तावे रोबोटिक-स्कैनर-इत्यस्य अनिवार्य-शर्ता अपसारिता आसीत्, अतः कोएम्प्ट-निर्माणी अन्ततः केन प्रकारेण स्कैनर-इत्येतेषां उपयोगं कृतवती इति प्रश्नः उद्भवति।

जयराम-रमेशः सम्पूर्णं विषयं शिक्षाव्यवस्थायाः तथा छात्र-सुरक्षा: प्रति अनवधानत्वरूपेण वर्णयन् केन्द्रसर्वकारात् उत्तरं याचितवान्। सः उक्तवान् यत् छात्राणां संवेदनशील-सूचना: एतादृशं लीक इति अत्यन्तं गम्भीरम् अस्ति, तथा च अस्मिन् समाविष्टानां निर्माणीनाम् अधिकारिणां च उत्तरदायित्वं निश्चितं कर्तव्यम् इति।

Hindusthan Samachar / Divya Ranjan