Enter your Email Address to subscribe to our newsletters


नवसारी, ३१ मे-मास: (हि.स.)। केन्द्रीय-जलशक्ति-मन्त्री सीआरपाटिलः जल-संरक्षण-विषये प्रधानमन्त्रिणः नरेन्द्रमोदी-महाभागस्य प्रयत्नं प्रशंसन् उक्तवान् यत् अधुना ‘जल-संचयः’ देशस्य महत् जन-आन्दोलनं जातम् अस्ति। अस्य अभियानस्य परिणामाः अधुना स्पष्टतया दृश्यन्ते इति सः अवदत्।
गुजरात-राज्यस्य नवसारी-नगरे आयोजितायां पत्रकार-वार्तायां मन्त्री पाटिलः उक्तवान् यत् प्रधानमन्त्रिणा जल-संरक्षणं जनभागीदारी-आधारितेन सह संयोजितम्। तेन जनानां कृते आह्वानं कृतं यत् ते स्व-कर्मभूमितः मातृभूमिपर्यन्तं जल-संचय-कार्येषु योगदानं दद्यु:।
सः अवदत् यत् ०६ सितम्बरमास: २०२४ तः प्रारब्धेऽस्मिन् अभियाने ३१ मे-मास: २०२५ पर्यन्तं देशे प्रायः १.५ कोटि-जल-संचय-संरचनानां निर्माणं सम्पन्नम् अस्ति। प्रथम-चरणे २७.५० लक्ष-संरचनाः निर्मिताः, याभ्यः प्रायः २.४ बिलियन-घनमीटर-परिमितः अतिरिक्त-जल-संग्रहण-क्षमता प्राप्ता। अधुना डेढ़-कोट्यधिक-संरचनानां निर्माणेन आगामी-वर्षा-ऋतौ अधिकं वर्षाजल-संचयनं सम्भविष्यति।
मन्त्री पाटिलः नवसारी-महानगरपालिकया कृतानां जल-प्रबन्धन-कार्याणां च प्रशंसां कृतवान्। सः अवदत् यत् नगर-क्षेत्रे जल-पूर्ण-समस्यायाः निवारणाय खाडी-प्रदेशः नदीवत् विस्तार्य गभीरः क्रियते, यत् कार्यं तीव्रगत्या प्रचलति।
अन्ते सः नवसारी-महानगरपालिका-मेयर, म्युनिसिपल-कमिश्नर, जनपद-उपायुक्त: तथा सर्वान् प्रशासनिक-अधिकारीन् कर्मचारींश्च विकास-कार्याणां समये सम्पन्नतायै शुभकामना: अयच्छत्।
Hindusthan Samachar / Divya Ranjan