Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 मईमासः (हि.स.)।
हिमाचल-प्रदेशस्य कुल्लू-घाटी-स्थिते रोली-खोली-हिमालय-पर्वते रविवासरे भव्यस्य ऐतिहासिकस्य च संस्कृत-ध्वजारोहण-समारोहतः आयोजनम् अभवत्।
अस्मिन् कार्यक्रमे केन्द्रीय-संस्कृत-विश्वविद्यालयस्य एकपञ्चाशत्-सदस्यात्मकः छात्र-छात्राणां दलः पूर्ण-उत्साहेन संस्कृत-ध्वजं फहरितवान् तथा भाषाया संवर्धनस्य संकल्पं पुनरुक्तवान्।
अस्य कार्यक्रमस्य आयोजनं केन्द्रीय-संस्कृत-विश्वविद्यालयेन (नवदेहली), संस्कृत-भारती-संस्थया, तरुणोदय-संस्कृत-सेवा-संस्थया (शिवमोग्गा), यूथ-हॉस्टल्स्-एसोसिएशन्-ऑफ्-इण्डिया-संस्थायाः तरुणोदय-इकाइया (शिवमोग्गा) तथा गीर्वाण-भारती-इकाइया (श्री-आदिचुञ्चनगिरि-क्षेत्रम्) च संयुक्त-तत्त्वावधाने कृतम्।
अस्मिन् अवसरे उपस्थिताः युवानः संस्कृत-प्रचारस्य प्रति स्वकीयां प्रतिबद्धतां प्रकटयन्तः प्रेरणादायकं श्लोकम् अपठन् यत्
“हिमाद्रौ तरुणाः सर्वे संस्कृतध्वजवाहकाः ।
ज्ञानदीपं नयामोऽद्य भारतस्य नवोदितम् ॥”
अस्य अर्थः अस्ति यत् हिमालयस्य उच्च-शिखरेषु स्थिताः एते युवानः संस्कृत-ध्वजस्य वाहकाः भूत्वा नव-भारत-निर्माणाय ज्ञानस्य दिव्यं दीपं प्रज्वालयन्ति।
अस्मिन् गौरवपूर्णे अवसरे केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवास-वरखेड़ी-महोदयः स्वसन्देशं प्रेषितवान्। तेन उक्तं यत् कुल्लू-मनाली-समीपे स्थिते रमणीय-रोली-खोली-पर्वते तृतीयवारं संस्कृत-ध्वजारोहणस्य सफल-आयोजनम् अत्यन्तं हर्षस्य गौरवस्य च विषयः अस्ति। हिमालयस्य अस्मिन् दिव्य-वातावरणे संस्कृत-ध्वजस्य फहरणं भारतीय-संस्कृतेः गौरवस्य, वैभवस्य तथा आध्यात्मिक-चेतनायाः प्रतीकम् अस्ति।
कुलपतिना कार्यक्रमस्य मुख्य-सन्देशः विशेषतया रेखाङ्कितः। तेन उक्तं यत् “हिमालयस्य शिखरे शिखरे संस्कृतम्, भारतस्य गेहे गेहे संस्कृतम्” अर्थात् हिमालयस्य शृङ्गेभ्यः आरभ्य भारतस्य प्रत्येक-गृहे संस्कृत-वाणी प्रतिध्वनितव्या।
प्रो. वरखेड़िना उक्तं यत् संस्कृतम् केवलं प्राचीना भाषा नास्ति, अपितु विश्वस्य सर्वाधिक-वैज्ञानिक-तार्किक-सुव्यवस्थित-भाषासु एका अस्ति। भाषिक-दक्षता, तार्किक-चिन्तनम् तथा नैतिक-मूल्यानां विकासार्थं संस्कृत-अध्ययनं बाल्यावस्थातः एव प्रारभ्यताम्।
विश्वविद्यालयस्य छात्र-कल्याण-अधिष्ठात्री प्रो. लीना-सक्करवालः अस्य अभियानस्य प्रशंसां कुर्वन्ती उक्तवती यत् एतादृशाः साहसिक-कार्यक्रमाः विद्यार्थिषु आत्मविश्वासस्य, अनुशासनस्य, नेतृत्व-क्षमतायाः तथा सामाजिक-उत्तरदायित्व-भावनायाः विकासं कुर्वन्ति। विश्वविद्यालयः शैक्षणिक-उत्कृष्टतया सह विद्यार्थिनः राष्ट्र-निर्माणेन सांस्कृतिक-चेतनया च संयोजयितुं निरन्तरं प्रयत्नशीलः अस्ति।
ट्रेकिंग-अभियानस्य समन्वयकः डॉ. योगेन्द्र-दीक्षित-महोदयः सूचितवान् यत् अस्मिन् कठिन-प्रेरणादायक-हिमालय-ट्रेकिंग-अभियाने विश्वविद्यालयस्य देशव्यापि-स्थितेषु द्वादश-परिसरेषु अध्ययनरताः एकपञ्चाशत्-विद्यार्थिनः सहभागिनः अभवन्।
अस्य ऐतिहासिक-क्षणस्य साक्षीभूतेषु जनिषु जयपुर-परिसरस्य क्रीडा-सहायक-निदेशकः डॉ. राजेन्द्र-कुमार-शर्मा-महोदयः, संस्कृत-भारती-तरुणोदय-संस्कृत-सेवा-संस्थायाः प्रमुखः तथा ट्रेक-समन्वयकः ए. एन. विजयेन्द्र-राव-महोदयः, यूथ-हॉस्टल्स्-एसोसिएशन्-ऑफ्-इण्डिया-संस्थायाः ट्रेक-संयोजकः नवीन-चन्द्र-तिवारी-महोदयः, टीम्-लीडरः एम्. के. ज्योति-महोदयः तथा रोली-खोली-शिविरस्य प्रमुखः आदित्यः इत्येभि: सहिताः बहवः छात्राः दलस्य सदस्याश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani