दिल्ल्यां सोमवासरे जल नवाचारेण युतयोः 'महा मिशन' अथ च 'भारत-विन पटलम् इत्यनयोः' भविष्यति शुभारंभम्
नव दिल्ली, 31 मईमासः (हि.स.)। भारतस्य जल-अनुसन्धान-नवाचार-परितन्त्रस्य सुदृढीकरणाय सोमवासरे दिल्ली-स्थिते डॉ. अंबेडकर अंतरराष्ट्रीय केंद्रे सर्वकार-उद्योग-जगतः-शिक्षा-जगतश्च दिग्गजाः राष्ट्रीय-कार्यशालायां सहभागी भविष्यन्ति। जल शक्ति मंत्रालय इ
प्रतीकात्मक चित्र


नव दिल्ली, 31 मईमासः (हि.स.)।

भारतस्य जल-अनुसन्धान-नवाचार-परितन्त्रस्य सुदृढीकरणाय सोमवासरे दिल्ली-स्थिते डॉ. अंबेडकर अंतरराष्ट्रीय केंद्रे सर्वकार-उद्योग-जगतः-शिक्षा-जगतश्च दिग्गजाः राष्ट्रीय-कार्यशालायां सहभागी भविष्यन्ति।

जल शक्ति मंत्रालय इत्यस्य अनुसारं ‘जल-क्षेत्रे अनुसन्धान-विकास-विषये राष्ट्रीय-कार्यशाला’ इत्यस्य उद्देश्यं देशे जल-नवाचारस्य अग्रिम-तरङ्गस्य त्वरणं कर्तुम् अस्ति।

अस्मिन् अवसरे मन्त्रालयस्य इसरो संस्थायाश्च मध्ये भविष्यति ऐतिहासिक-समझौता-स्मरणपत्रम्। तेन सह ‘महा-मिशन’ तथा ‘भारत-विन-पोर्टल’ इत्यस्य शुभारम्भः भविष्यति, येन देशे जल-नवाचारः तथा स्टार्टअप्स-क्षेत्रं नूतनां गतिं प्राप्स्यति।

अस्य एक-दिवसीय-राष्ट्रिय-कार्यशालायाः संयुक्त-उद्घाटनं केन्द्रीय-जल-शक्ति-मन्त्री सी. आर. पाटिल, विज्ञान-प्रौद्योगिकी-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ. जितेंद्र सिंह तथा जल-शक्ति-राज्यमन्त्री राज भूषण चौधरी करिष्यन्ति। अस्मिन् अवसरे अन्तरिक्ष-विभागस्य सचिवः तथा इसरो अध्यक्षः, विज्ञान-प्रौद्योगिकी-विभागस्य सचिवः, जल-संरक्षण-कृषि-विभागस्य सचिवः तथा राष्ट्रीय-जल-मिशनस्य अतिरिक्त-सचिवः एवं मिशन-निदेशकः डॉ. वी. नारायणन सहिताः अनेकाः वरिष्ठ-अधिकारीणः हितधारकाः च उपस्थिताः भविष्यन्ति।

अस्मिन् अवसरे ‘मिशन-फॉर-एडवांसमेंट-इन-हाई-इम्पैक्ट-एरियाज-फॉर-वॉटर’ इत्यस्य शुभारम्भः भविष्यति। एषा जल शक्ति मंत्रालय तथा एएनआरएफ इत्येतयोः संयुक्त-पहल अस्ति, यस्य उद्देश्यं पेय-जलम्, जलवायु-परिवर्तनम् तथा जल-उपयोग-दक्षता इत्यादिषु क्षेत्रेषु अत्याधुनिक-अनुसन्धानस्य प्रोत्साहनम् अस्ति।

अतिरिक्तरूपेण जल-क्षेत्रे नवीन-उत्पादानां प्रोटोटाइप-विकासस्य च समर्थनार्थं मन्त्रालयः ‘भारत-विन-पोर्टल’ इत्यस्य अन्तर्गतं स्टार्टअप्स तथा एमएसएमई-संस्थाभ्यः मुक्त-आमन्त्रण-प्रक्रियाम् आरप्स्यति।

अस्यैव अवसरे ‘कैच-द-रेन’ नामकः सहभागि-डिजिटल-मञ्चः अपि उद्घाटितः भविष्यति। अयं मञ्चः नागरिकान् तथा स्थानीय-निकायान् जल-संरक्षण-वर्षा-जल-संचयन-प्रयत्नान् अभिलेखयितुं प्रदर्शयितुं च समर्थान् करिष्यति।

जल-संसाधन-मूल्याङ्कन-निगराणी-कार्ययोः उपग्रह-आधारित-उन्नत-प्रौद्योगिकीनां सुदृढीकरणार्थं उभे संस्थे समझौता-स्मरणपत्रे हस्ताक्षरं करिष्यतः। अस्य अन्तर्गतं २४ प्राथमिक-क्षेत्राणि पूर्वमेव चिह्नितानि सन्ति।

अस्यां कार्यशालायां भूजल-प्रबन्धनम्, नदी-आकृति-विज्ञानम्, बाढ़-मैदान-मानचित्रणम्, बांध-सुरक्षा, शहरी-जलभृत-मानचित्रणम् तथा जल-प्रशासने रिमोट-सेन्सिंग-प्रयोगाः इत्यादयः महत्त्वपूर्ण-विषयाः आधृत्य तकनीकी-सत्राणि आयोजितानि भविष्यन्ति।

एतत्सह गत-१२-वर्षेषु जल-क्षेत्रे सम्पन्न-अनुसन्धानस्य प्रभावानां मूल्याङ्कनम् अपि क्रियिष्यते तथा १६तम-वित्त-आयोग-चक्रस्य रणनीतिक-प्राथमिकतासु विस्तृत-चर्चा भविष्यति।

अस्य अवसरे विशेष-प्रदर्शनी अपि आयोजिता भविष्यति। एषा प्रदर्शनी अनुसन्धान-संस्थानानां, स्टार्टअप्स-संस्थानानां तथा एमएसएमई-संस्थानानां कृते सतत-जल-प्रबन्धनाय विकसितानां अत्याधुनिक-समाधानानां नवाचार-प्रौद्योगिकीनां च प्रदर्शनार्थं महत्त्वपूर्णं मञ्चं प्रदास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani