Enter your Email Address to subscribe to our newsletters

भुवनेश्वरनगम्, ३१ मे-मास: (हि.स.)। ओडिशा-राज्यस्य राज्यपालः डॉ.हरि-बाबु-कम्भमपाटिः भारतीय-आरक्षक-सेवायाः (IPS) अधिकारीणिं अनन्या-अवस्थीं स्वकीय-एड-डी-कैम्प (एडीसी) रूपेण नियुक्तवान्। एषा नियुक्तिः कृत्वा सा ओडिशा-राज्यपालस्य एडीसी-रूपेण नियुक्ता प्रथम-भारतीय-महिला-अधिकारीणि इति अभिलिखिता अस्ति।
रविवासरे लोक-भवने आयोजिते औपचारिक-समारोहे राज्यपालः डॉ.कम्भमपाटिः अनन्या-अवस्थीं स्वागतं कृत्वा तस्यै नूतन-उत्तरदायित्वं समर्पितवान्। अस्मिन् अवसरे राज्यपाल-सचिवालयस्य वरिष्ठ-अधिकारीणः अपि उपस्थिताः आसन्।
नूतन-नियुक्तेः पूर्वं अनन्या-अवस्थी कटक-नगरे सहायक-आरक्षक-आयुक्ता (ACP), यूपीडी-पदे कार्यरत् आसीत्। एषा नियुक्तिः प्रशासनिक-आरक्षक-सेवयोः स्त्रीणां वर्धमान-सहभागिता-नेतृत्व-क्षमतायाः च महत्वपूर्णं उदाहरणं मन्यते।
अनन्या-अवस्थी इत्येषा IPS-अधिकारी पूर्वं राज्यपालस्य आरक्षक-एडीसी-रूपेण कार्यरतस्य कुलदीप-मीणा इत्यस्य स्थानं स्वीकृतवती। उल्लेखनीयम् अस्ति यत् ओडिशा-राज्यपालस्य साहाय्यार्थं द्वौ एडीसी-नियुक्तौ स्तः—एकः भारतीय-नौसेनायाः, अपरः ओडिशा-आरक्षकस्य प्रतिनिधित्वं करोति। अनन्या-अवस्थी पुलिस-एडीसी-रूपेण सेवां करिष्यति, यदा तु भारतीय-नौसेनायाः लेफ्टिनेंट् हर्षित-देवः नौसेना-एडीसी-रूपेण दायित्वं निर्वहति।
एडीसी-दायित्वं राज्यपालं विविधेषु आधिकारिक-कार्यक्रमेषु, राजकीय-समारोहेषु, प्रोटोकॉल-संबद्ध-क्रियासु तथा अन्येषु औपचारिक-अवसरेषु सहायतां प्रदातुं भवति। अनन्या-अवस्थी इत्यस्याः नियुक्तिः न केवलं राज्यपाल-सचिवालयं सुदृढं करिष्यति, अपि तु ओडिशा-राज्यस्य प्रशासनिक-आरक्षक-सेवयोः स्त्री-प्रतिनिधित्वस्य सुदृढीकरणे ऐतिहासिक-उपलब्धिः अपि अस्ति।
Hindusthan Samachar / Divya Ranjan