Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 31 मईमासः (हि.स)।
अमेरिका-भारतयोः मुख्य-व्यापार-वार्ताकारौ उभयदेशयोः मध्ये प्रस्तावितस्य अन्तरिम-व्यापार-सहमतेः विवरणानां अन्तिमरूप-निर्धारणार्थम् १ जूनतः अत्र चतुर्दिवसीयमुपवेशनं करिष्यतः। अन्तरिम-व्यापार-सम्झौतस्य रूपरेखा फेब्रुवरी-मासे निर्धारिताऽभवत्।
आधिकारिक-स्रोतांसि रविवासरे अवदन् यत् भारतम् आगच्छतः अमेरिकी-दलस्य नेतृत्वं मुख्य-वार्ताकारः ब्रेन्डन्-लिञ्च् करिष्यति, यदा भारतस्य मुख्य-वार्ताकारः दर्पण-जैनः भविष्यति। जैन-महोदयः वाणिज्य-विभागे अतिरिक्त-सचिवः अस्ति। भारत-अमेरिका-देशौ ०७ फेब्रुवरी-दिने संयुक्त-वक्तव्यं प्रकाशितवन्तौ, यस्मिन् पारस्परिक-लाभदायकस्य अन्तरिम-व्यापार-सहमतेः रूपरेखायाः विषये सहमतिः व्यक्ता आसीत्।
वाणिज्य-उद्योग-मन्त्रालयस्य वक्तव्यानुसारम्— “उभौ पक्षौ अन्तरिम-सहमतेः विवरणानां अन्तिमरूप-निर्धारणं तथा व्यापक-द्विपक्षीय-व्यापार-सम्झौतस्य अन्तर्गतं बाजार-प्रवेशः, गैर-शुल्क-उपायाः, सीमाशुल्कं, व्यापार-सुविधा, निवेश-प्रोत्साहनम्, आर्थिक-सुरक्षा इत्यादिषु बहुषु क्षेत्रेषु वार्तालापम् अग्रे नेतुं प्रस्तावितवन्तौ।” एषा रूपरेखा व्यापक-भारत-अमेरिका-बीटीए-वार्तायाः प्रति उभयदेशयोः प्रतिबद्धतां पुनः प्रमाणितवती।
अस्य पूर्वं भारतीयदलम् २० तः २३ अप्रैल्-पर्यन्तं अमेरिका-देशस्य यात्रां कृतवान् तथा उभौ पक्षौ वाशिंगटन-नगरे मिलितवन्तौ। चर्चानां प्रगत्यर्थं मुख्य-वार्ताकारस्य नेतृत्वे अमेरिकी-दलं ०१ तः ०४ जून्-पर्यन्तं भारत-यात्रां करिष्यति। अतः अधुना उभौ पक्षौ अस्य सम्झौतस्य वैधानिक-प्रारूपस्य अन्तिमरूपं दातुं प्रवृत्तौ भविष्यतः।
उल्लेखनीयम् अस्ति यत् अमेरिकी-राष्ट्रपतिः डोनाल्डट्रंपो भारतस्य उपरि शुल्कं ५० प्रतिशततः न्यूनीकृत्य १८ प्रतिशतं कर्तुं सहमतिं व्यक्तवान् आसीत्। अमेरिकया रूसी-तैल-क्रयणस्य कारणेन भारतीय-वस्तुषु आरोपितं २५ प्रतिशत-शुल्कं निरस्तम् आसीत् तथा सम्झौतस्य अन्तर्गतं अवशिष्टं २५ प्रतिशतं न्यूनीकृत्य १८ प्रतिशतं कर्तव्यम् आसीत्। किन्तु अमेरिकीय-सर्वोच्च-न्यायालयस्य निर्णयानन्तरं अमेरिकी-राष्ट्रपतिना २४ फेब्रुवरी-दिनात् १५०-दिनानां कृते सर्वेषां देशानाम् उपरि १० प्रतिशत-शुल्कस्य आरोपणस्य घोषणा कृता आसीत्। एतेषां परिवर्तनानां परिप्रेक्ष्ये भारत-अमेरिका-देशयोः मुख्य-वार्ताकारयोः मध्ये फेब्रुवरी-मासे गोष्ठ्याः आयोजनं कृतम् आसीत्, किन्तु सा स्थगिता अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani