Enter your Email Address to subscribe to our newsletters

धर्मशाला, 31 मईमासः (हि.स.)।धर्मशाला-नगर-निगम-निर्वाचने सत्तारूढा काङ्ग्रेसदलं महान्तं आघातं प्राप्तवत्। धर्मशाला-नगर-निगमे भाजपादलेन काङ्ग्रेसदलाय महान् पराजयः दत्तः। नगर-निगमस्य सप्तदश-वार्डपरिसरेषु एकादशसु भाजपादलस्य, पञ्चसु काङ्ग्रेसदलस्य तथा एकस्मिन् स्थाने निर्दलीय-प्रत्याशिनः विजयः अभवत्।
यदि भाजपादलस्य प्रत्याशिनां विषये कथ्यते तर्हि वार्ड-संख्या-एकस्य फेरसेठगञ्ज-क्षेत्रात् रेखा-देवी, वार्ड-संख्या-द्वितीयस्य भागसूनाग-क्षेत्रात् शमशेर-सिंहः, वार्ड-संख्या-तृतीयस्य मैक्लोडगञ्ज-क्षेत्रात् आशा-देवी, वार्ड-संख्या-षष्ठस्य कोतवाली-बाजार-क्षेत्रात् करशिमा, वार्ड-संख्या-सप्तमस्य सचिवालय-क्षेत्रात् आशु, वार्ड-संख्या-अष्टमस्य खेल-परिसर-क्षेत्रात् प्रेरणा तथा वार्ड-संख्या-द्वादशस्य बडोल-क्षेत्रात् मीना-कुमारी, वार्ड-संख्या-पञ्चदशस्य खनियारा-क्षेत्रात् प्रवीण-कुमारः, वार्ड-संख्या-त्रयोदशस्य दाड़ी-क्षेत्रात् हर्ष-ओबराय, वार्ड-संख्या-षोडशस्य क्षेत्रात् अनुपमा-कटोच तथा वार्ड-संख्या-सप्तदशस्य सिद्धबाड़ी-क्षेत्रात् सुरेश-कुमारः विजयं प्राप्तवन्तः।
अन्यतः काङ्ग्रेस्-पार्टीदलाय केवलं पञ्च-स्थानानि एव प्राप्तानि। काङ्ग्रेस्-प्रत्याशिषु वार्ड-संख्या-चतुर्थस्य कश्मीर-हाउस-क्षेत्रात् पूर्व-महापौरः नीनू-शर्मा, वार्ड-संख्या-पञ्चमात् शैलजा, वार्ड-संख्या-दशमात् सुदेश-कुमारः तथा वार्ड-संख्या-एकादशात् अनुरागः एवं वार्ड-संख्या-चतुर्दशस्य कण्ड-क्षेत्रात् अनोजः विजयं प्राप्तवन्तः।
एतदतिरिक्तं वार्ड-संख्या-नवमस्य सकोह-क्षेत्रात् नरेश-कुमारः निर्दलीयप्रत्याशिरूपेण विजयी अभवत्।
Hindusthan Samachar / Dheeraj Maithani