Enter your Email Address to subscribe to our newsletters


भोपालम्, ३१ मे-मास: (हि.स.)। मध्यप्रदेश-राज्यस्य रायसेन-जनपदस्य ग्रामीण-क्षेत्रे सेमरी-नामके ग्रामे सामान्य-कुटुम्बे जातायाः अञ्जना-यादवेन स्वस्य अथक-परिश्रमेण, साहसेन तथा दृढ-संकल्पेन विश्वस्य सर्वोच्चं माउण्ट-एवरेस्ट-शिखरं सफलतया आरुह्य भारतस्य त्रिरङ्गः उत्तोलितः। अस्याः उपलब्ध्याः विषये मुख्यमन्त्री डॉ.मोहन-यादवः तस्यै हार्दिकं शुभकामनाः प्रेषितवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक-माध्यमे ‘एक्स’ माध्यमेन उक्तवान् यत् रायसेन-जनपदस्य सेमरी-ग्रामस्य अञ्जना-यादवेन विश्वस्य सर्वोच्चं शिखरम् एवरेस्ट-पर्यन्तं सफलतया आरोहणं कृत्वा प्रदेशस्य गौरवं वर्धितम्। सा अस्माकं सर्वेषां कृते गर्वस्य विषयः अस्ति। मुख्यमन्त्री अवदत् यत् अञ्जनायाः साहसं, संकल्पः तथा समर्पणं सर्वासां बालिकानां कृते प्रेरणास्रोतः अस्ति, तथा च तस्याः उज्ज्वल-भविष्यस्य कामनां कृतवती।
सा अञ्जना यादवः २७ मे दिनाङ्के प्रातः ५:२४ वादने ८८४८.८६ मीटर-उन्नतां माउण्ट-एवरेस्ट-चोटिं सफलतया जयित्वा तत्र त्रिरङ्गं उत्तोलितती। पूर्वमपि सा ६११९ मीटर-उन्नते लाबुचे-पीक-शिखरे आरोहणं कृत्वा भारतीय-सेनायाः शौर्यस्य स्मरणं कृतवती।
अञ्जना एवरेस्ट-बेस-शिविरतः भावुकं संदेशं दत्त्वा उक्तवती यत् एषा केवलं पर्वतारोहण-यात्रा न, अपि तु राष्ट्रस्य बलिदानिन: प्रति श्रद्धाञ्जलिः अस्ति। सा प्रधानमन्त्रिणः नरेन्द्रमोदी-महाभागस्य नेतृत्वे नूतन-भारतस्य स्वरः विश्वस्य उच्चतम-शिखरेषु अपि गूञ्जति इति उक्तवती।
सा ‘फिट-इण्डिया’ तथा ‘मां के नाम एक पेड़’ इत्यादि-अभियानयोः संदेशं प्रसारयन्ती स्वस्थ-जीवनशैली-स्वीकाराय पर्यावरण-संरक्षणाय च जनान् प्रेरितवती। अञ्जना स्वस्य सफलतायाः श्रेयः मुख्यमन्त्रिणः प्रोत्साहनाय, परिवाराय तथा समर्थकेभ्यः दत्तवती।
एषा एवरेस्ट-विजयिनी सोमवासरे भारतं प्रत्यागमिष्यति, तस्याः भव्य-स्वागतस्य सज्जता च क्रियते।
Hindusthan Samachar / Divya Ranjan