मध्यप्रदेशस्य भोपाले पर्यावरणानुकूलजीवनशैलीविषये प्रथमं राष्ट्रियं सम्मेलनं संपन्नम्
भोपालम्, 31 मईमासः (हि.स.)। मध्य-प्रदेशस्य राजधानी भोपाल-नगरे ‘मेनस्ट्रीमिंग-एलआईएफईः पर्यावरण-अनुकूलदृढनगरीयावासानां निर्माणम्’ इति विषये प्रथम-राष्ट्रिय-सम्मेलनं रविवासरे सम्पन्नम्। अस्मिन् द्विदिवसीय-सम्मेलने देशस्य विविध-प्रदेशेभ्यः प्रमुख-वै
‘पर्यावरण अनुकूल जीवनशैली’ विषय पर प्रथम राष्ट्रीय सम्मेलन में प्रतिभागियों की सामूहिक तस्वीर


भोपालम्, 31 मईमासः (हि.स.)।

मध्य-प्रदेशस्य राजधानी भोपाल-नगरे ‘मेनस्ट्रीमिंग-एलआईएफईः पर्यावरण-अनुकूलदृढनगरीयावासानां निर्माणम्’ इति विषये प्रथम-राष्ट्रिय-सम्मेलनं रविवासरे सम्पन्नम्। अस्मिन् द्विदिवसीय-सम्मेलने देशस्य विविध-प्रदेशेभ्यः प्रमुख-वैज्ञानिकाः, पर्यावरणविदः, शहरीय-योजनाकाराः, नीतिविशेषज्ञाः तथा भूमिस्थरे कार्यरताः संस्थाः सहभागिनः अभवन्।

सोसायटी-ऑफ्-नेचर्-हीलर्स्-कन्जर्वेटर्स्-एण्ड्-लोकल्-टूरिज्म्-डेवलप्मेण्ट् (एसएनएचसी-इण्डिया) तथा मध्य-प्रदेश-राज्य-जैव-विविधता-बोर्ड् इत्येताभ्यां संयुक्तरूपेण एपको (एनवाइरन्मेण्टल्-प्लानिङ्ग्-एण्ड्-को-ऑर्डिनेशन-ऑर्गनाइजेशन) संस्थायां आयोजितस्य अस्य सम्मेलनस्य उद्देश्यं तीव्रतया वर्धमानस्य शहरीकरणस्य जलवायु-परिवर्तनस्य च आह्वानानां मध्ये जैव-विविधता-संरक्षणं, पर्यावरण-अनुकूल-विकासः तथा टिकाऊ-शहरीय-योजनायाः प्रोत्साहनम् आसीत्। विशेषज्ञैः अस्य विषये विशेषः बलः प्रदत्तः यत् नगर-विकासस्य आदर्शेषु प्रकृतिः स्थानीय-पारिस्थितिकी च केन्द्रस्थाने स्थापनीया, एषा कालस्य आवश्यकता अस्ति।

दिल्ली-विश्वविद्यालयस्य सेण्टर्-फॉर्-एनवायरन्मेण्टल्-मैनेजमेण्ट्-ऑफ्-डिग्रेडेड्-इकोसिस्टम्स् (सीईएमडीई) संस्थायाः प्रो. डॉ. फैयाज् ए. खुसरो-महोदयेन उक्तं यत् दिल्ली-नगरं सहितं देशस्य अनेकेषु नगरेषु वर्धमानं प्रदूषणं पर्यावरणीय-संकटं च शहरीय-योजनायै गम्भीर-चेतावनी अस्ति। तेन स्थानीय-पारिस्थितिकीय-समाधानानां स्वीकरणस्य आवश्यकतायां बलं दत्तम्।

पूर्व-विशेष-पुलिस-महानिदेशिका अनुराधा-शङ्करः उक्तवती यत् पर्यावरण-संरक्षणं केवलं सरकाराणां उत्तरदायित्वं नास्ति, अपितु समाजस्य सामूहिक-कर्तव्यं अस्ति।

तकनीकी-सत्रेषु इण्डियन-इन्स्टिट्यूट्-ऑफ्-ह्यूमन्-सेटलमेण्ट्स्-बेङ्गलुरु-संस्थायाः जगदीश-कृष्णस्वामी-महोदयः, डॉ. चन्द्रशेखर-एम्. बिरादर-महोदयः, वन्यजीव-संस्थान-देहरादूनस्य डॉ. गौतम-तालुकदार-महोदयः तथा अन्ये विशेषज्ञाः नगरीय-तापमान-वृद्धिः, हरित-प्रदेशानां न्यूनता, जैव-विविधता-संरक्षणम् तथा शहरीय-योजनायां प्रकृति-आधारित-समाधानानां आवश्यकतायाः विषये विस्तृत-विचारान् प्रस्तुतवन्तः। तैः नगरेषु देशीय-वृक्षारोपणम्, ब्लू-ग्रीन्-इन्फ्रास्ट्रक्चर् तथा वार्ड्-स्तरे जैव-विविधता-रजिस्टर्-निर्माणस्य आवश्यकता अपि प्रतिपादिता।

द्वितीय-तकनीकी-सत्रे नदीनां, आर्द्र-भूमीनां तथा शहरीय-जल-प्रणालीनां संरक्षणस्य विषये चर्चा अभवत्। विशेषज्ञैः भूजल-दोहनम्, रेतः-खननम् तथा नदी-संरक्षणस्य आव्हानानि रेखाङ्कितानि तथा शहरीय-विकास-योजनासु जल-संसाधनानां आर्द्र-भूमीनां च संरक्षणं प्राधान्येन स्थापनीयम् इति सुझावः दत्तः।

‘सस्टेनेबल्-सिटी—गवर्नेन्स्, प्लानिङ्ग्-एण्ड्-कम्युनिटी’ इति विषये आयोजितायां पैनल्-चर्चायां विशेषज्ञैः शहरीय-योजनायां जैव-विविधता-संरक्षणम्, पक्षी-अनुकूल-भवन-निर्माणम्, प्राकृतिक-संसाधनानां सतत-उपयोगः तथा समावेशी-विकास-आदर्शस्य प्रोत्साहनस्य आवश्यकता प्रतिपादिता।

सम्मेलनानन्तरं रविवासरे प्रतिभागिनः इन्दिरा-गान्धी-राष्ट्रीय-मानव-संग्रहालयस्य भ्रमणं कृतवन्तः। भ्रमणस्य समये विशेषज्ञैः पारम्परिक-ज्ञानम्, प्रकृति-आधारित-जीवनशैली तथा दृढविकासस्य भारतीय-दृष्टिकोणस्य विषये चर्चा कृता। एतत् भ्रमणं सम्मेलनस्य उद्देश्यानां व्यवहारिक-सन्दर्भ-प्रदाने महत्त्वपूर्णं सिद्धम्।

सम्मेलने स्पष्टतया प्रतिपन्नं यत् जलवायु-परिवर्तनस्य तीव्र-शहरीकरणस्य च आव्हानानां समाधानं केवलं आधारभूत-संरचनानां विस्तारात् न सम्भवति, अपितु प्रकृत्या सह संतुलित-विकास-आदर्शस्य स्वीकरणेन एव सम्भवम्। विशेषज्ञैः पर्यावरण-अनुकूल-जीवनशैलीं जन-आन्दोलनरूपेण स्थापयितुं तथा शहरीय-विकासस्य केन्द्रे जैव-विविधतायाः पारिस्थितिक्याः च स्थानं दातुम् आह्वानं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani