अद्य रात्रौ आकाशे वर्षस्य लघुतमः “ब्लू माइक्रो मून” दर्क्ष्यते
भोपाल-नगरम्, ३१ मे-मासः (हि.स.)। खगोल-विज्ञाने रुचिं धारयद्भ्यः जनेभ्य: अद्यतन-रात्रिः अत्यन्तं विशेषा भविष्यति। अस्मिन् अवसरे आकाशे अद्भुतं दृश्यं द्रष्टुं शक्यते। अद्य ज्येष्ठ-मासस्य पूर्णिमायाः चन्द्रः ब्लू-माइक्रो-मून-रूपेण दर्क्ष्यते। एषः २०२६
आसमान में चमकता चंद्रमा (प्रतीकात्मक तस्वीर)


भोपाल-नगरम्, ३१ मे-मासः (हि.स.)। खगोल-विज्ञाने रुचिं धारयद्भ्यः जनेभ्य: अद्यतन-रात्रिः अत्यन्तं विशेषा भविष्यति। अस्मिन् अवसरे आकाशे अद्भुतं दृश्यं द्रष्टुं शक्यते। अद्य ज्येष्ठ-मासस्य पूर्णिमायाः चन्द्रः ब्लू-माइक्रो-मून-रूपेण दर्क्ष्यते। एषः २०२६ तमस्य वर्षस्य लघुतमः पूर्णचन्द्रः भविष्यति।

मध्यप्रदेश-राज्यस्य राष्ट्रिय-पुरस्कार-प्राप्ता विज्ञान-प्रसारिका सारिका-घारू एतस्याः खगोलीय-घटनायाः विषये उक्तवती यत् “ब्लू-मून” इति नाम श्रुत्वा जनाः मा मन्यन्ताम् यत् चन्द्रः नीलवर्णः दृश्यते। एतत् केवलं पारम्परिकं नाम अस्ति। यदा एकस्मिन् आङ्ग्ल-पञ्चाङ्ग-मासे द्वे पूर्णिमे भवतः, तदा द्वितीय-पूर्णिमायाः चन्द्रः “ब्लू-मून” इति कथ्यते। अस्य कारणं यत् द्वयोः क्रमागतयोः पूर्णिमयोः मध्ये प्रायः २९.५ दिवसानां कालः भवति। अस्मिन् मासे प्रथमा पूर्णिमा मे-मासस्य प्रथमे दिने आसीत्, तथा च अद्य ३१ मे-मासे द्वितीया पूर्णिमा वर्तते।

सारिका-घारू-महाभागया उक्तं यत् अद्य पूर्णिमा-रात्रौ चन्द्रः पृथिव्याः परिक्रमां कुर्वन् स्वस्य अत्यन्त-दूरस्थ-बिन्दौ, अर्थात् अपोजी-स्थाने, भविष्यति। पृथिव्याः प्राय: ४,०६,००० किलोमीटर-दूरत्वात् सः सामान्य-पूर्णिमाचन्द्रात् प्रायः ५-७ प्रतिशतं लघुतरः तथा १० प्रतिशतं न्यून-प्रभः दृश्यते। एतस्मात् कारणात् तस्य नाम माइक्रो-मून इति अभवत्। एकस्यामेव रात्रौ मन्थली-ब्लू-मून तथा माइक्रो-मून इत्येतयोः संयोगः अतीव दुर्लभः मन्यते।

हिन्दू-पञ्चाङ्गानुसारम् अद्य अधिकमासस्य ज्येष्ठ-पूर्णिमा वर्तते तथा च चन्द्रः वृश्चिक-राशौ स्थितः भविष्यति। अतः एषः स्कार्पियो-ब्लू-मून इत्यपि कथ्यते। सा अवदत् यत् अद्य रात्रौ अपरमपि खगोलीयं दृश्यं द्रष्टुं शक्यते। चन्द्रः आकाशे वृश्चिक-राशेः सर्वाधिक-दीप्तिमन्तं रक्तवर्णं तारकम् एण्टारेस् समीपतः गच्छन् दृश्यते। एतत् मनोहरं दृश्यं दूरदर्शिकायाः अथवा द्विनेत्री-दर्शकस्य आवश्यकतां विना अपि सम्पूर्णरात्रौ स्पष्टतया द्रष्टुं शक्यते।

सारिका-घारू-महाभागया उक्तं यत् अनन्तरं ब्लू-मून-दर्शनार्थं दीर्घकालं प्रतीक्षितव्यं भविष्यति। यतः अस्य पश्चात् २० मे २०२७ तमे वर्षे सीजनल-ब्लू-मून, ३१ दिसम्बरमासे २०२८ तमे वर्षे पूर्ण-चन्द्रग्रहणेन सह मन्थली-ब्लू-मून, तथा २४ अगस्तमासे २०२९ तमे वर्षे पुनः सीजनल-ब्लू-मून दर्क्ष्यते।

Hindusthan Samachar / Divya Ranjan