Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, ३१ मे-मासः (हि.स.)। मध्यप्रदेश-काङ्ग्रेस-पक्षस्य सामाजिक-माध्यम-विभागेन ‘सोशियल मीडिया वारियर्स’ इति अभियानम् आरब्धम्, यस्य उद्देश्यं यूनः, जागरूकान् नागरिकान्, सामाजिक-माध्यमेषु सक्रियान् प्रभावकारिणश्च पक्षेन सह संयोजयितुम् अस्ति। अस्य अभियानस्य अन्तर्गतं राज्य-मण्डल-विधानसभा-स्तरेषु सामाजिक-माध्यम-योद्धृणां चयनं भविष्यति, ये काङ्ग्रेस-पक्षस्य विचारधारां जनहित-विषयान् च डिजिटल्-मञ्चेषु प्रभावकररूपेण प्रसारयिष्यन्ति।
राजधानी भोपालनगरस्य राज्य-काङ्ग्रेस-कार्यालयस्थिते राजीव-गान्धी-प्रेक्षागृहे रविवासरे आयोजिते पत्रकार-सम्मेलने अस्य अभियानस्य औपचारिक-शुभारम्भः कृतः। आन्लाइन-आवेदन-प्रक्रिया अपि आरब्धा अस्ति। इच्छुकाः प्रतिभागिनः १५ जूनमास: २०२६ पर्यन्तं गूगल्-प्रपत्रस्य माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। अस्य अभियानस्य उद्देश्यं संविधानस्य लोकतान्त्रिक-मूल्यानि च प्रति श्रद्धां वहन्तः नागरिकाः काङ्ग्रेस-सङ्घटनेन सह सम्बद्धाः भवेयुः तथा च तेभ्यः सामाजिक-राजनीतिक-विषयेषु सक्रिय-सहभागितायाः अवसरः प्रदीयेत। अनेन माध्यमेन यूनः सङ्घटनेन सह सम्पर्कं स्थापयितुं सरलः पारदर्शकश्च मञ्चः प्रदास्यते।
अस्य अभियानस्य अन्तर्गतं लेखकाः, विन्यासकाराः, वीडियो-सम्पादकाः, कार्टून-निर्मातारः, कवयः, ब्लाग-लेखकाः, प्रेरक-वक्तारः, सामाजिक-कार्यकर्तारः, लोक-कलाकाराः तथा अन्येषु सृजनात्मक-क्षेत्रेषु प्रतिभान्विताः जनाः सङ्घटनेन सह सम्बद्धाः भविष्यन्ति। अपि च महिलानां, यूनां, लोकसेवकानां च विषयेषु कार्यं कुर्वन्तः जनाः स्वमतं प्रस्तोतुं योगदानं दातुं च अवसरं प्राप्स्यन्ति।
चयन-प्रक्रिया
३१ मे-मासात् १५ जूनमास-पर्यन्तम् — अन्तर्जाल-आवेदनम्।
१५ जून-मासत: १९ जूनमास-पर्यन्तम् — आवेदनानां प्रारम्भिक-परीक्षणम्।
२० जून-मासत: २३ जूनमास-पर्यन्तम् — मण्डल-स्तरीय-साक्षात्कारः।
२४ जून-मासत: २८ जूनमास-पर्यन्तम् — अन्तिम-परीक्षणम्।
३० जूनमास: — चयनितानां सामाजिक-माध्यम-योद्धृणां सूची प्रकाशिता भविष्यति।
राज्य-स्तरीय-शुभारम्भानन्तरं ३ जूनमास-पर्यन्तं सर्वेषु मण्डलेषु मण्डल-काङ्ग्रेस-अध्यक्षैः पत्रकार-सम्मेलनानां माध्यमेन अस्य अभियानस्य प्रचारः क्रियते। तदर्थं प्रत्येकस्मिन् मण्डले सामाजिक-माध्यम-विभागस्य विशेष-प्रभारिणः अपि नियुक्ताः सन्ति।
अभियानस्य शुभारम्भ-अवसरे आयोजिते पत्रकार-सम्मेलने अखिल-भारतीय-काङ्ग्रेस-समित्याः राष्ट्रिय-सचिवः तथा पूर्व-विधायकः कुनाल-चौधरी, राज्य-काङ्ग्रेस-सामान्य-सचिवः डॉ.सञ्जय-काम्ले तथा काङ्ग्रेस-सामाजिक-माध्यम-विभागस्य राज्याध्यक्षः चञ्चल-व्यासः सम्बोधनम् अकुर्वन्। अस्मिन् अवसरे सामाजिक-माध्यम-विभागस्य राज्य-उपाध्यक्षः अवीरल-हरि-जैनः, अभिषेक-सोनी, पूर्व-राज्य-प्रवक्ता राहुल-राजः, राज्य-महासचिवः मिर्जा-आसिफ-बेगः, शाज-खानः, राज-नाग्डा, भानु-प्रताप-सिंह-राठौडः इत्यादयः बहवः पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan