‘मन की बात’ इत्यस्मिन् कार्यक्रमे प्रधानमंत्री मोदी ओडिशायाः बेलपणा सुवर्णरेखाआम्रम् इत्येते उल्लिखितवान्
भुवनेश्वरम्, 31 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी रविवासरे स्वस्य मासिक-रेडियो-कार्यक्रमे ‘मन की बात’ इत्यस्मिन् ओडिशायाः पारम्परिक-ग्रीष्मकालीन-पेयस्य बेल पणा तथा प्रसिद्धस्य सुवर्णरेखा आम उल्लेखं कृत्वा भारतस्य समृद्ध-कृषि-सांस्कृतिक
प्रधानमंत्री नरेन्द्र मोदी


भुवनेश्वरम्, 31 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी रविवासरे स्वस्य मासिक-रेडियो-कार्यक्रमे ‘मन की बात’ इत्यस्मिन् ओडिशायाः पारम्परिक-ग्रीष्मकालीन-पेयस्य बेल पणा तथा प्रसिद्धस्य सुवर्णरेखा आम उल्लेखं कृत्वा भारतस्य समृद्ध-कृषि-सांस्कृतिक-विरासतायाः प्रशंसाम् अकरोत्।

देशव्यापिनीं भीषण-उष्णतां सन्दर्भीकृत्य प्रधानमन्त्रिणा नागरिकान् पर्याप्त-मात्रायां जलपानं कर्तुं, दीर्घकालं यावत् आतपे स्थितिं परित्यक्तुं तथा स्वास्थ्य-सुरक्षार्थं सरकारेण प्रदत्तानां निर्देशानां पालनं कर्तुं च आवाहनं कृतम्।

ग्रीष्मकाले रक्षण-प्राप्तये पारम्परिक-उपायानां चर्चां कुर्वन् प्रधानमन्त्रिणा उक्तं यत् भारतस्य विविध-राज्येषु स्थानीय-स्तरे निर्मीयमाणानि पेयानि न केवलं स्वास्थ्यवर्धकानि सन्ति, अपितु देशस्य सांस्कृतिक-विविधतायाः अपि प्रतीकानि सन्ति।

तेन ओडिशायाः बेल पणा विशेषरूपेण उल्लिख्य उत्तर-भारतस्य आम्रपन्ना, पंजाबहरियाणयोः लस्सीपेयं, राजस्थानगुजरातयोः तक्रं , बिहारझारखंड सत्तूकं शरबतपेयंं तथा दक्षिण-भारतस्य पणकं, नीर मोर तथा संभारम इत्यादीनां पारम्परिक-पेयानाम् अपि उल्लेखं कृतवान्।

प्रधानमन्त्रिणा उक्तं यत् एतानि पेयानि ‘एक-भारत-श्रेष्ठ-भारतस्य’ भावनां साकारीकरिष्यन्ति तथा अस्माकं गृहेषु क्षेत्रेषु च उपलब्धाभिः प्राकृतिक-सामग्रीभिः निर्मीयन्ते। तेन एतेषां सांस्कृतिक-महत्त्वस्य पर्यावरण-दृष्ट्या च स्थायित्वस्य अपि उल्लेखः कृतः।

स्वस्य सम्बोधने प्रधानमन्त्रिणा ग्रीष्म-ऋतोः लोकप्रिय-फलस्य आम अपि उल्लेखः कृतः तथा देशस्य कृषकाणां प्रशंसा कृता। तेन ओडिशा इत्यस्य सुवर्णरेखा आम सहित महाराष्ट्रस्य अल्फांसो आम तथा हापुस आम, गुजरात इत्यस्य केसर आम, उत्तर प्रदेश इत्यस्य दशहरी आम, काशी इत्यस्य लंगड़ा आम, बिहार इत्यस्य जर्दालू आम तथा पश्चिम बंगाल इत्यस्य हिमसागर आम इत्यादीनां उल्लेखं कृतवान्।

प्रधानमन्त्रिणा उक्तं यत् देशस्य ग्रामेषु उत्पादितानि एतानि विशिष्ट-फलानि अधुना प्रत्यक्षतया वैश्विक-बाजारान् प्रति प्रेष्यन्ते, येन कृषकाणां आयः वर्धते तथा भारतीय-कृषि-अर्थव्यवस्थायै नूतना दृढता प्राप्यते।

कार्यक्रमस्य अन्ते प्रधानमन्त्रिणा ग्रीष्मकालीन-अवकाशस्य समये प्रकृत्या सह सम्बद्ध-शिक्षणस्य अवधारणायाः अपि चर्चा कृता। तेन एतादृशी ‘पाठशाला’ कल्पिता, यत्र न कक्षाः स्युः न च शुल्कम्, अपितु नदीनां प्राकृतिक-परिवेशस्य मध्ये अनुभवरूपा शिक्षा प्राप्येत।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani