Enter your Email Address to subscribe to our newsletters

मंडी, 31 मईमासः (हि.स.)।
पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामठाकुरः अवदत् यत् मण्डीनगरे अधुना एषः व्यवहारः जातः यत् कांग्रेसदलाय केवलम् एका एव आसन्दी लभ्यते। मण्डीनगरनिगमस्य भाजपादलस्य प्रचण्डविजयानन्तरं पत्रकारैः सह वार्तालापं कुर्वन् जयरामठाकुरः अवदत् यत् गतविधानसभानिर्वाचने मण्डीजिलातः कांग्रेसदलाय दशसु केवलम् एका एव आसन्दी प्राप्ता। तस्मात् पूर्वमपि दशसु अष्टौ भाजपादलस्य, एका कांग्रेसदलस्य, एका च निर्दलीयप्रत्याशिनः प्रकाशराणायाः प्राप्ता आसीत्, यः पश्चात् भाजपादले सम्मिलितः अभवत्। अधुना नगरनिगमनिर्वाचनेऽपि संख्या तादृशी एव दृश्यते। मण्डीनगरनिगमाय पञ्चदशसु चतुर्दशवार्डेषु निर्वाचनम् अभवत्, यस्मिन् द्वादशसु भाजपाप्रत्याशिनः विजयी अभवन्। एका कांग्रेसदलस्य, एका च निर्दलीयप्रत्याशिन्याः विजयः अभवत्। सः अवदत् यत् मण्ड्याः अतिरिक्तं धर्मशालायां सोलने च भाजपादलेन विजयपताका स्थापिताऽस्ति।
सः अवदत् यत् धर्मशालानगरनिगमे कुलम् सप्तदशासन्दीषु भाजपादलेन एकादशसु विजयः प्राप्तः। यदा तु कांग्रेसदलाय अत्र पञ्चसु आसन्दीषु विजयः प्राप्तः। तथैव सोलने सप्तदशसु दशसु भाजपादलस्य, षट्सु कांग्रेसदलस्य, एकस्मिन् च निर्दलीयप्रत्याशिनः विजयः अभवत्। सः अवदत् यत् प्रदेशसर्वकारः विशेषतः मुख्यमन्त्री सुक्खू स्थानीयनिकायानां पञ्चायतीराजसंस्थानां च निर्वाचनानि स्थगयितुं प्रयत्नं कृतवान्।
सः अवदत् यत् अधुना मम मन्ये तेषां शङ्का भयञ्च सत्यं सिद्धम्। तेषां भयम् आसीत् यत् निर्वाचनपरिणामेषु कांग्रेसदलस्य पराजयः भविष्यति, दलमध्ये च अशान्तिः प्रसरेत्, दलनेतृत्वस्य उपरि प्रश्नचिह्नं स्थाप्येत। सः अवदत् यत् नगरपरिषदां परिणामेषु भाजपासमर्थकानां विजयः अभवत् चेत् तत् न स्वीकृतम्। दबावं दातुं प्रयासः कृतः यत् ते कांग्रेसदलाय समर्थनं दातुं विवशाः भवेयुः।
जयरामः अवदत् यत् त्रिषु चरणेषु सम्पन्नेषु पञ्चायतनिर्वाचनेषु सप्ततिप्रतिशतं प्रधानोपप्रधानाः भाजपासमर्थिताः विजयी अभवन्। तथैव अष्टाविंशतिषु पञ्चविंशतिनगरपरिषत्सु भाजपासमर्थिताः विजयी अभवन्। यदा तु बीडीसी तथा जिलापरिषद्निर्वाचनानां परिणामाः अद्य निर्गच्छन्ति। सः अवदत् यत् कांग्रेसदलाय एषः संदेशः अस्ति यत् भवतां समयः अधुना समाप्तः अभवत्।
जयरामठाकुरः अवदत् यत् मुख्यमन्त्री आचारसंहितायाः उल्लङ्घनं कृत्वा मण्ड्यां घोषणा कृतवान् यत् कांग्रेसदलस्य प्रत्याशिनः विजयी कुरुत, प्रत्येकस्मै वार्डाय पञ्चाशल्लक्षरूप्यकात् आरभ्य एककोटिरूप्यकपर्यन्तं विकासकार्याय राशि प्रदास्यामि। किन्तु मण्डीजनाः तस्य एकामपि वाचं न श्रुतवन्तः, भाजपादलस्य पक्षे स्वमतं प्रदत्तवन्तः। सः अवदत् यत् आगामिसमये अस्माकं प्रयासः भविष्यति यत् मण्ड्यां कांग्रेसदलाय एका अपि आसन्दी न लभेत।
सः अवदत् यत् मुख्यमन्त्री सुखविन्द्रसिंहसुक्खू मण्डीं सार्धत्रिवर्षेषु केवलम् अपमानितवान्, किमपि न दत्तवान्, अपितु हरितवान्। सः हिमाचले भाजपादलस्य विजयाय दलस्य प्रदेशप्रभारी श्रीकान्तशर्मा, प्रदेशाध्यक्षः डा. राजीवबिन्दलः, दलस्य राष्ट्रीयाध्यक्षः नितिननवीनः, पूर्वाध्यक्षः जेपीनड्डा, प्रधानमन्त्री नरेन्द्रमोदी च प्रति कृतज्ञतां व्यक्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani