Enter your Email Address to subscribe to our newsletters

नवदेहली, ३१ मे (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी रविवासरे ‘मन की बात’ इति कार्यक्रमे क्रीडा-क्षेत्रे यूनां उत्कृष्ट-प्रदर्शनं, प्राचीन-सांस्कृतिक-सम्पदायाः प्रत्यावर्तनं, ग्रीष्मकालीन-आम्र-वैविध्यं, पारम्परिक-देशीय-पेयपदार्थानां प्रयोगं, यूनां मध्ये खगोल-विज्ञानं प्रति वर्धमानं उत्साहं, सैनिक-कल्याणे नागरिकानां योगदानं, नदीनां शुद्धीकरणं तथा वन्यजीव-संरक्षणं इत्यादिषु अनेकषु प्रेरणादायक-विषयेषु विस्तारतः चर्चा कृतवान्। प्रधानमन्त्री मोदी एतेषां विषयाणां माध्यमेन राष्ट्र-निर्माणं, सांस्कृतिक-गौरवं तथा सामूहिक-प्रयत्नस्य भावनां च प्रशंसितवान्।
प्रधानमन्त्रीः उक्तवान् यत् ‘मन की बात’ इति लोकप्रिय-मासिक-रेडियो-कार्यक्रमस्य १३४तम-एपिसोड-इत्यस्य आरम्भः क्रीडा-उपलब्धिभ्यः अभवत्। सः झारखण्ड-राज्यस्य राजधानी राँची-नगरे सम्प्रति सम्पन्नं राष्ट्रिय-वरिष्ठ-एथलेटिक्स-संघ-प्रतियोगितां स्मृतवान्। अस्मिन् प्रतियोगितायां देशस्य विभिन्नेभ्यः भागेभ्यः प्रायः ८०० एथलीटक्रीडका: भागं गृहीतवन्तः तथा च चतसृषु स्पर्धासु नूतनाः राष्ट्रिय-कीर्तिमानाः स्थापिताः इति सः उक्तवान्। गुरिन्दरवीर-सिंहः, विशाल-टी.के., तेजस्विन्-शङ्करः, देव-मीणा, कुलदीप-कुमारः इत्यादीनां क्रीडकानां उत्कृष्ट-प्रदर्शनस्य विशेष-प्रशंसा अपि कृता।
प्रधानमन्त्रीः उक्तवान् यत् १००-मीटर-धावन-प्रतियोगितायां अल्पद्वय-दिवसाभ्यन्तरे पुरुष-वर्गे राष्ट्रिय-कीर्तिमानः त्रिवारं भग्नः अभवत्, यत् एकं अभूतपूर्वं साधनम् अस्ति। गुरिन्दरवीर-सिंहः तथा अनिमेष-कुजूरः एतत् कीर्तिमानं भग्नवन्तौ। सः उक्तवान् यत् अस्य प्रदर्शनस्य चर्चा सम्पूर्णे देशे भवति, तथा च एतादृशाः सफलताः न केवलं क्रीडकान् अपि तु भावी-वंशं क्रीडां प्रति प्रेरयन्ति।
प्रधानमन्त्री स्वस्य अद्यतन-यूरोपीय-यात्रायाः उल्लेखं कृतवान् तथा नीदरलैण्ड-देशे आयोजिते विशेष-समारोहे चोल-कालस्य प्राचीन-ताम्र-पट्टिकानां भारताय प्रत्यावर्तनं स्मारितवान्। अस्मिन् ऐतिहासिक-कार्यक्रमे नीदरलैण्डस्य प्रधानमन्त्री अपि उपस्थितः आसीत्। एतासु पट्टिकासु २१ महत्य: तथा ३ लघु-ताम्र-पट्टिकाः सन्ति, येषु राजराज-चोलस्य एकस्य प्रतिज्ञायाः पूर्तिः वर्णिता अस्ति।
प्रधानमन्त्रीः आम्र-फलस्य विविध-प्रजातीनां उल्लेखं कृतवान्—हापुस-केसर-दशहरी-लंगड़ा-जर्दालु-चौसा-मालदा-बंगनपल्ली-तोतापुरी-नीलम्-मलगोवा-हिमसागर-सुवर्णरेखा: इत्यादयः। सः उक्तवान् यत् आम्रं ग्रीष्मकालस्य आनन्दस्य प्रतीकम् अस्ति तथा कृषकाणां आर्थिक-सबलतां वर्धयति।
सः ग्रीष्म-ऋतौ स्वास्थ्य-सुरक्षायै जनान् सावधानतां कर्तुं अपि आग्रहं कृतवान् तथा पारम्परिक-देशीय-पेयपदार्थानां (यथा आम्र-पानकम्-तक्रम्-सत्तू-शरबत्-शीतपेयम्-नीर-मोर-बिल्व-पना इत्यादयः) उल्लेखं कृतवान्।
प्रधानमन्त्री खगोल-विज्ञान-क्लब-इत्यादीनां वृद्धिं, शिक्षिका गिरिजा-अम्मा इत्यस्य सैनिक-कल्याणार्थं योगदानं, उत्तर-प्रदेशस्य आकाश-गुप्तस्य नदी-शुद्धिकरण-अभियानं, तथा गङ्गा-डॉल्फिनस्य सफल-रक्षणं इत्यादीनां प्रेरणादायक-घटनानां अपि प्रशंसां कृतवान्।
Hindusthan Samachar / Divya Ranjan