पीएम-स्वनिधि-योजनायाः षड्वर्षाणि पूर्णानि, ७५.५ लक्षाधिकाः पथ-विक्रेतारः लाभान्विताः
नवदेहली, ३१ मे-मासः (हि.स.)। केन्द्रीय-आवास-नगरीय-विकास-मन्त्री मनोहर-लालः पीएम-स्ट्रीट-वेंडर्स-आत्मनिर्भर-निधि (पीएम-स्वनिधि) योजनायाः षड्वर्ष-पूर्णतायाः अवसरे उक्तवान् यत् अस्याः योजनायाः अन्तर्गतं गत-षट्सु वर्षेषु देशव्यापी ७५.५ लक्षाधिकाः पथ-वि
अगर्तला में आयोजित कार्यक्रम के दौरान केंद्रीय आवास एवं शहरी विकास मंत्री मनोहर लाल पीएम स्वनिधि योजना के लाभार्थियों से संवाद करते हुए और ऋण स्वीकृति पत्र वितरित करते हुए। कार्यक्रम में त्रिपुरा के मुख्यमंत्री माणिक साहा सहित अन्य लोग भी मौजूद रहे।


नवदेहली, ३१ मे-मासः (हि.स.)। केन्द्रीय-आवास-नगरीय-विकास-मन्त्री मनोहर-लालः पीएम-स्ट्रीट-वेंडर्स-आत्मनिर्भर-निधि (पीएम-स्वनिधि) योजनायाः षड्वर्ष-पूर्णतायाः अवसरे उक्तवान् यत् अस्याः योजनायाः अन्तर्गतं गत-षट्सु वर्षेषु देशव्यापी ७५.५ लक्षाधिकाः पथ-विक्रेतारः लाभान्विताः अभवन्। एषा योजना लक्षशः जनान् औपचारिक-धनागार-व्यवस्थया सह संयोज्य तेषाम् आजीविकां सुदृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति।

योजनायाः षड्वर्ष-पूर्णतायाः उपलक्ष्ये रविवासरे अगरतला-नगरे आयोजिते कार्यक्रमे मनोहर-लालः त्रिपुरा-राज्यस्य मुख्यमन्त्रिणः माणिक-साहस्य उपस्थितौ अरुणाचल-प्रदेश-असम-मणिपुर-मिजोरम-त्रिपुरा-राज्यानां लाभार्थिभिः सह संवादम् अकरोत्। अस्मिन् अवसरे त्रिपुरा-राज्यस्य पथ-विक्रेतृभ्यः ऋण-स्वीकृति-पत्राणि ऋण-पत्रिकाश्च (क्रेडिट्-कार्ड्) वितरितानि।

मनोहर-लालः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना वर्षे २०२० तमे नगरीय-दरिद्रजनानाम् आर्थिक-सशक्तीकरणाय तेषाम् आजीविकाया: सुदृढीकरणाय च पीएम-स्वनिधि-योजना प्रारब्धा। तेन उक्तं यत् अस्याः योजनायाः उद्देश्यं केवलं प्रतिभूति-विहीन-ऋणस्य उपलब्धता नास्ति, अपितु पथ-विक्रेतेभ्यः सम्मानं, आत्मविश्वासं आर्थिक-सुरक्षां च प्रदातुम् अपि अस्ति।

सः अवदत् यत् योजनायाः अन्तर्गतं अधुना यावत् १.१२ कोट्यधिकानि प्रतिभूति-विहीन-ऋणानि स्वीकृतानि सन्ति, तथा च १७,८०० कोटि-रूप्यकेभ्यः अधिका धनराशिः लाभार्थिभ्यः वितरिता अस्ति। पूर्वोत्तर-क्षेत्रे २.५९ लक्षाधिकानि ऋणानि वितरितानि, येषां माध्यमेन ४३० कोटि-रूप्यकेभ्यः अधिका वित्तीय-सहायता प्रदत्ता अस्ति।

तेन उक्तं यत् त्रिपुरा-राज्ये अधुना यावत् ९,३०० अधिकानि ऋणानि स्वीकृतानि सन्ति तथा च प्रायः १५ कोटि-रूप्यकाणां धनराशिः लाभार्थिभ्यः वितरिता अस्ति।

आवास-नगरीय-विकास-मन्त्रालयस्य अनुसारम् अस्याः योजनायाः प्रभावः व्यापकः अभवत्। योजनायाः अन्तर्गतं ३४.८१ लक्षाः महिला-पथ-विक्रेत्र्यः सशक्तीकृताः सन्ति तथा च महिलाभ्यः ५१.८४ लक्षाणि ऋणानि वितरितानि। एतदतिरिक्तं ५५ लक्षाधिकाः विक्रेतारः डिजिटल्-प्रणाल्या सह संयोजिताः सन्ति।

मन्त्रालयेन उक्तं यत् योजनायाः लाभार्थिनां औसत-आयः प्रतिवर्षं प्रायः २० प्रतिशतं वर्धिता अभिलेखिता अस्ति। अपरं च ३० प्रतिशताधिकाः लाभार्थिनः योजनया प्राप्तेन ऋणेन स्वव्यवसायं विस्तीर्य अन्यस्रोतसेभ्यः अपि ऋणं प्राप्तवन्तः।

उल्लेखनीयम् अस्ति यत् जूनमासे २०२० तमे वर्षे प्रारब्धायाः पीएम-स्वनिधि-योजनायाः अन्तर्गतं अधुना यावत् १.०५ कोट्यधिकानि ऋणानि स्वीकृतानि सन्ति। तथैव ‘स्वनिधि-से-समृद्धि’ इति प्रयत्नस्य अन्तर्गतं ५० लक्षाधिकानां पथ-विक्रेता-परिवाराणां सामाजिक-आर्थिक-प्रोफाइलिङ्ग कृतम् अस्ति तथा च विभिन्न-केन्द्रीय-कल्याणकारी-योजनानाम् अन्तर्गतं १.५२ कोट्यधिकाः लाभाः स्वीकृताः सन्ति।

Hindusthan Samachar / Divya Ranjan