विश्वतांबूलनिषेधदिवसे मद्यनिषेध विभागेन निष्कासिता जन जागरूकता यात्रा
लखनऊ, 31 मईमासः (हि.स.)। ‘व्यसन-मुक्त-भारत-अभियानस्य अन्तर्गतस्य विश्व तम्बाकू निषेध दिवसस्य अवसरे रविवासरे मद्य निषेध विभागेन तांबूल-गुटखा-जनितमादकपदार्थानां सेवनात् उत्पद्यमानानां रोगाणां दुष्परिणामानां च विषये जन-जागरूकतार्थं यात्रा आयोजिता।
जन जागरूकता रैली में शामिल जन

लखनऊ, 31 मईमासः (हि.स.)। ‘व्यसन-मुक्त-भारत-अभियानस्य अन्तर्गतस्य विश्व तम्बाकू निषेध दिवसस्य अवसरे रविवासरे मद्य निषेध विभागेन तांबूल-गुटखा-जनितमादकपदार्थानां सेवनात् उत्पद्यमानानां रोगाणां दुष्परिणामानां च विषये जन-जागरूकतार्थं यात्रा आयोजिता।

एषा जागरूकता-यात्रा रविवासरस्य प्रातःकाले मद्यनिषेध-समाजोत्थान-अधिकारी-कार्यालयात्, २७ अशोक-मार्ग, लखनऊ स्थित-क्षेत्रीय-कार्यालयात् प्रारभ्य जीपीओउद्याने स्थितायाः महात्मगांधीप्रतिमायाः पर्यन्तं आयोजिता आसीत्।

अस्याः यात्रायाः उद्देश्यं जनानां मध्ये सभ्य-स्वस्थ-जीवन-शैल्याः प्रोत्साहनं, तेषां जीवन-स्तरस्य उन्नयनं तथा तम्बाकू-गुटखयोः हानिकारक-प्रभावानां तद्जन्य-रोगाणां च विषये सन्देश-प्रसारणम् आसीत्।

अस्यां तांबूल-निषेधयात्रायां राज्य मद्यनिषेध विभागस्य अधिकारिणः, कर्मचारिणः, सामाजिक-स्वैच्छिक-संस्थानां कार्यकर्तारः सहित प्रायः ३०० जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani