प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सांस्कृतिक-मूल्यानां पुनर्जागरणं भवति : मुख्यमन्त्री भजनलालशर्मा
जयपुरनगरम्, ३१ मे-मासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् पुण्यश्लोका अहिल्याबाई-होल्कर: सेवां न्यायं च शासनस्य आधाररूपेण स्वीकृतवती। अहिल्याबाई समाजस्य अन्तिम-जनस्य कल्याणेन सह देशव्यापिनां धार्मिक-स्थलानाम् उत्थानेन भारतीय-सांस्कृतिक-
प्रधानमंत्री नरेन्द्र मोदी के नेतृत्व में सांस्कृतिक मूल्यों का हो रहा पुनर्जागरण:मुख्यमंत्री भजनलाल शर्मा


प्रधानमंत्री नरेन्द्र मोदी के नेतृत्व में सांस्कृतिक मूल्यों का हो रहा पुनर्जागरण:मुख्यमंत्री भजनलाल शर्मा


जयपुरनगरम्, ३१ मे-मासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा उक्तवान् यत् पुण्यश्लोका अहिल्याबाई-होल्कर: सेवां न्यायं च शासनस्य आधाररूपेण स्वीकृतवती। अहिल्याबाई समाजस्य अन्तिम-जनस्य कल्याणेन सह देशव्यापिनां धार्मिक-स्थलानाम् उत्थानेन भारतीय-सांस्कृतिक-मूल्येभ्यः नूतनाम् ऊर्जां प्रदत्तवती। तस्याः जीवनम् अस्मभ्यं सन्देशं ददाति यत् शिक्षिता, आत्मनिर्भरा, सशक्ता च मातृशक्तिः एव राष्ट्रस्य समाजस्य च प्रगतेः आधारः अस्ति। तस्याः आदर्शाः अधुना विकसित-भारतस्य विकसित-राजस्थानस्य च आधारशिलारूपेण सन्ति।

मुख्यमन्त्री रविवासरे बिरला-सभागारे पुण्यश्लोक-अहिल्याबाई-होल्कर-महाभागायाः ३०१-तमी-जयंती-अवसरे आयोजिते प्रादेशिक-समारोहे सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् अहिल्याबाई काशी-विश्वनाथ-मन्दिरेण सह बहूनां तीर्थस्थानानां पुनरुद्धारे महत्त्वपूर्णं योगदानम् अददात् तथा च तीर्थराजे पुष्करे सरोवरस्य घाटानाम् निर्माणमपि कारितवती। धर्मे आस्थायां च देवीहोल्कर: प्रशासनिक-कौशल्याय सैन्य-नेतृत्वाय च प्रसिद्धा आसीत्। सेनायां तया महिला-सैनिक-दलस्य गठनं कृत्वा स्वस्य दूरदर्शितां प्रदर्शिता।

सः अवदत् यत् कन्याभ्यः गुणवत्तायुक्तां शिक्षां तथा आत्मनिर्भरत्वस्य अवसरान् प्रदातुमेव लोकमाता-अहिल्याबाई-होल्करस्य आदर्शानाम् वास्तविकम् अनुसरणम् अस्ति। अस्मिनेव दिशि प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे महिला-शिक्षा, महिला-सशक्तीकरणम् आत्मनिर्भरता च प्रोत्साहयितुं बह्व्यः योजनाः सञ्चालिताः सन्ति। तेन सह राज्य-सर्वकारेण वित्तपत्रे घुमन्तु-अर्द्धघुमन्तु-समाजस्य बालकानां कृते स्कूल-ऑन-व्हील्स योजनायाः घोषणापि कृता। सः आश्वासनं दत्त्वा उक्तवान् यत् समाजस्य छात्र-छात्रीणां कृते जयपुरे छात्रावास-निर्माणार्थं भूमिः उपलब्धा कारयिष्यते।

मुख्यमन्त्री उक्तवान् यत् लोकमाता-अहिल्याबाई-होल्करस्य धार्मिक-सांस्कृतिक-धरोहर-संरक्षण-कार्याणाम् अनुरूपमेव अद्य देशे प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सांस्कृतिक-पुनर्जागरणं प्रवर्तते। अयोध्यायां श्रीराममन्दिरस्य प्राणप्रतिष्ठा, काशी-विश्वनाथ-परिसरस्य विकासः, केदारनाथ-धाम्नः पुनर्विकासः, महाकाल-लोकस्य निर्माणम् तथा सोमनाथ-स्वाभिमान-पर्व इत्येतानि तस्य उदाहरणानि सन्ति। सः अवदत् यत् अद्य राष्ट्रं विकासं धरोहरं च, आधुनिकताम् आस्थां च समं वहन् अग्रे गच्छति।

मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः अपि प्रदेशस्य प्रमुख-आस्था-केन्द्राणां विकासार्थं निरन्तरं कार्यं करोति। मेहन्दीपुर-बालाजी, खाटूश्यामजी, सालासर-बालाजी, तीर्थराज-पुष्करः, तनोट-माता, करणी-माता, श्रीनाथजी, सांवरिया-सेठः तथा गिरिराज-धरण-पूंछरी-का-लौठा इत्यादीनाम् आस्था-केन्द्राणां विकासार्थं बहूनि कार्याणि क्रियमाणानि सन्ति। वरिष्ठ-नागरिक-तीर्थयात्रा-योजनायाः माध्यमेन अधुना यावत् ९१ सहस्राधिकाः वरिष्ठ-नागरिकाः तीर्थयात्रां कृतवन्तः। अस्मिन् वर्षे षट्सहस्रं वरिष्ठजनाः वायुयानमार्गेण पशुपतिनाथ-धाम (नेपालदेशे) गमिष्यन्ति तथा पञ्चाशत्सहस्रं वरिष्ठजनाः वातानुकूलित-रेलयानैः विविध-तीर्थस्थानानि यात्रां करिष्यन्ति।

सः अवदत् यत् राष्ट्रनिर्माणे प्रत्येकं समाजस्य प्रत्येकं नागरिकस्य च महत्त्वपूर्णं योगदानम् अस्ति। बघेल-समाजः पशुपालने, कृषिक्षेत्रे, समाजसेवायां च उल्लेखनीयानि कार्याणि कृतवान्। राज्यसर्वकारः कृषकाणां पशुपालकानां च हितार्थं निरन्तरं कार्यं करोति। गोपाल-क्रेडिट-कार्ड-योजनायाः माध्यमेन ऋणसुविधा, पशु-बीमा-योजनया पशुधनस्य सुरक्षा तथा चलित-पशु-चिकित्सा-एककस्य सुविधा प्रदीयते। तदतिरिक्तं प्रति-लीटरं पञ्च-रूप्यकाणां अनुदानमपि प्रदीयते।

मुख्यमन्त्री उक्तवान् यत् दुग्ध-उत्पादने राजस्थानं देशस्य अग्रणी-राज्यम् अस्ति। राज्यसर्वकारः दुग्ध-प्रसंस्करण-क्षमतावृद्ध्यर्थं, दुग्ध-संयन्त्र-विस्तारार्थं, नवीन-संग्रहण-केन्द्र-स्थापनार्थं च कार्यं करोति, येन पशुपालकानाम् आयः वर्धेत तथा यूनां रोजगार-अवसराः अपि वर्धेरन्।

सः अवदत् यत् प्रदेशे गङ्गा-दशहरा-पर्वणः (२५ मे) आरभ्य “वन्दे गङ्गा जल-संरक्षण-जन-अभियानम्” सञ्चालितम् अस्ति। अस्य माध्यमेन जलस्रोतसां स्वच्छता-मरम्मत-कार्याणि क्रियन्ते। सः प्रदेशवासिनः आहूतवान् यत् सर्वे जनाः अस्मिन् अभियाने सक्रिय-सहभागितां कुर्वन्तु।

गृह-राज्यमन्त्री जवाहरसिंह-बेढ़म् अवदत् यत् समाजः अहिल्याबाई-होल्करस्य जीवनात् प्रेरणां गृहीत्वा एकतां धारयेत् तथा राष्ट्र-प्रदेशयोः विकासे योगदानं दद्यात्। राज्यसभायाः सांसदः मदन-राठौडः उक्तवान् यत् अहिल्याबाई-होल्करः शतवर्षेभ्यः पूर्वमेव महिला-शिक्षायाः उन्नयनार्थं कार्यं कृतवती। अधुना यूनः एतादृशानां महापुरुषाणाम् आदर्शान् स्वजीवने अवतार्य अग्रिमवंशं संस्कारयुक्तं कुर्युः।

कार्यक्रमे अहिल्याबाई-होल्करस्य जीवनाधारित-ग्रन्थस्य विमोचनम् अपि कृतम्। अस्मिन् अवसरे अहिल्याबाई-होल्करस्य वंशजः उदयसिंहराजे-होल्करः, विमुक्त-घुमन्तु-अर्द्धघुमन्तु-जनजाति-महासंघस्य प्रदेशाध्यक्षः दुष्यन्तसिंह-बघेलः तथा अन्ये जनप्रतिनिधयः, गडरिया-गाडरी-गायरी-धनगर-पाल-बघेल-होल्कर-समाजस्य बहवः गणमान्याः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan