विकासशील-देशानां कृते अनुसंधान-सूचना-प्रणाली स्वस्य ४४तमं स्थापना-दिवसम् आचरितवती
नवदेहली, ३१ मे-मासः (हि.स.)। विकासशील-देशानां कृते अनुसंधान-सूचना-प्रणाली (आरआईएस) शनिवासरे देहली-नगरे स्वस्य ४४तमं स्थापना-दिवसम् आचरितवती। अस्मिन् अवसरे “कृषि-परिवर्तनाय भारत-अफ्रीका-साझेदारी-सुदृढीकरणम्” इति विषये एकदिवसीय-सम्मेलनस्य अपि आयोजनं
विदेश राज्य मंत्री पबित्र मार्गेरिटा के साथ अन्य लोग मौजूद।


नवदेहली, ३१ मे-मासः (हि.स.)। विकासशील-देशानां कृते अनुसंधान-सूचना-प्रणाली (आरआईएस) शनिवासरे देहली-नगरे स्वस्य ४४तमं स्थापना-दिवसम् आचरितवती। अस्मिन् अवसरे “कृषि-परिवर्तनाय भारत-अफ्रीका-साझेदारी-सुदृढीकरणम्” इति विषये एकदिवसीय-सम्मेलनस्य अपि आयोजनं कृतम्। एतत् सम्मेलनं दक्षिण-ग्लोबल-सेंटर-ऑफ-एक्सीलेन्स, आरआईएस तथा आईसीआरआईसैट-संस्थयोः संयुक्त-तत्त्वावधाने आयोजितम्।

अस्मिन् अवसरे विदेश-राज्यमन्त्री पबित्र-मार्गेरिटा प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शितां प्रकाशयन् उक्तवान् यत् भारतस्य विकास-यात्रा केवलं देश-पर्यन्तं सीमिता नास्ति, अपितु विशेषतः वैश्विक-दक्षिणस्य राष्ट्रैः सह समग्र-विश्वस्य प्रगत्या सम्बद्धा अस्ति। सः प्रमाणाधारित-नीति-सूचनानां प्रस्तुतीकरणे तथा वैश्विक-मञ्चेषु विकासशील-देशानां स्वरस्य सुदृढीकरणे आरआईएस-संस्थायाः भूमिकां महत्त्वपूर्णाम् अवदत्।

नीति-आयोगस्य पूर्व-सदस्यः प्रो.रमेश-चन्द्रः परिवर्तमान-वैश्विक-परिस्थितीनां अनुरूपं स्वस्य अनुसंधान-कार्यस्य विस्तारार्थम् आरआईएस-संस्थायाः प्रशंसाम् अकरोत्।

आरआईएस-संस्थायाः शासी-परिषदः सदस्यः डॉ.शेषाद्रि-चारी उक्तवान् यत् समकालीन-विकासात्मक-समस्याया: समाधानाय तथा रणनैतिक-नीति-विमर्शस्य दिशानिर्देशनाय संस्थायाः प्रासङ्गिकता निरन्तरं वर्धते।

विदेश-मन्त्रालयस्य संयुक्त-सचिवा (पीपी एण्ड् आर) अपर्णा-राय उक्तवती यत् समावेशिता, समता तथा दक्षिण-दक्षिण-सहयोग इत्यादीनां अवधारणानां वैश्विक-नीति-विमर्शे प्रतिष्ठापने आरआईएस-संस्थायाः योगदानम् उल्लेखनीयम् अस्ति।

अस्मात् पूर्वं आरआईएस-संस्थायाः महानिदेशकः प्रोफेसर-सचिन-कुमार-शर्मा १९८३ तमे वर्षे संस्थायाः स्थापनातः आरभ्य अद्यावधि यात्रायाः विवरणं प्रस्तौति स्म। सः अवदत् यत् भू-राजनीतिक-अनिश्चिततानां बहुपक्षीय-संस्थानां च वर्धमान-विखण्डनस्य अस्मिन् काले आरआईएस-संस्थायाः प्रासङ्गिकता अधिकतरा अभवत्। संस्था वैश्विक-दक्षिणस्य विकासात्मक-आकाङ्क्षाणां संवर्धनाय पूर्णतया प्रतिबद्धा अस्ति।

सम्मेलने सतत-कृषि-प्रणालीषु, जलवायु-अनुकूल-कृषौ, डिजिटल्-सार्वजनिक-अवसंरचनायाम् तथा कृषि-नवप्रवर्तन-उद्यम-परितन्त्रे गम्भीरः विचार-विमर्शः अभवत्। अस्मिन् देश-विदेशेभ्यः आगतैः कृषि-वैज्ञानिकैः, नीति-निर्मातृभिः तथा उद्योग-प्रतिनिधिभिः स्वानुभवानां आदान-प्रदानं कृतम्, येन अफ्रीका-महाद्वीपे तथा वैश्विक-दक्षिणे प्रौद्योगिकी-सञ्चालित-कृषि-विकासस्य नवीनाः दिशाः उद्घाटिताः।

अस्मिन् समारोहे देश-विदेशानां प्रमुख-नीति-निर्मातारः, राजनयिकाः, विद्वांसः तथा संस्थायाः पूर्व-सदस्याश्च सहभागिनः अभवन्। कार्यक्रमे वक्तृभिः अन्ताराष्ट्रिय-विकास-सहयोगस्य नीति-अनुसन्धानस्य च क्षेत्रे आरआईएस-संस्थायाः चत्वारिंशदधिक-वर्षीय-योगदानस्य प्रशंसा कृता।

Hindusthan Samachar / Divya Ranjan