Enter your Email Address to subscribe to our newsletters

शिमला, 31 मईमासः (हि.स.)।
अन्ताराष्ट्रियशिमलाग्रीष्मोत्सवस्य-२०२६ अवसरे अस्मिन् वर्षे पालितश्वभ्यः विशेषप्रतियोगितायाः आयोजनं भविष्यति। पशुपालनविभागस्य पक्षतः १० जूनदिनाङ्के शिमलानगरे “मायचैम्पियन-डॉगशो” इति कार्यक्रमः आयोजितः भविष्यति, यस्मिन् विभिन्नजातीयाः विभिन्नाकारयुक्ताः पालितश्वानः स्वप्रतिभां प्रदर्शयिष्यन्ति। जिलाप्रशासनस्य कथनानुसारम् एषः कार्यक्रमः ग्रीष्मोत्सवस्य प्रमुखाकर्षणेषु सम्मिलितः भविष्यति।
जिलाधीशः शिमला अनुपमकश्यपः रविवासरे अवदत् यत् डॉगशो इत्यस्य आयोजनं १० जूनदिनाङ्के प्रातः ११ वादनात् अपराह्णे ३ वादनपर्यन्तं भविष्यति। प्रतियोगितायाः उद्देश्यं पालितपशूनां प्रति जागरूकतां वर्धयितुम्, उत्तरदायिपशुपालनं प्रोत्साहयितुं तथा पशुप्रेमिभ्यः एकं सामूहिकमञ्चं प्रदातुम् अस्ति। तेन जनाः अस्मिन् आयोजने उत्साहपूर्वकं सहभागितां कर्तुं आहूताः।
प्रतियोगितां रोचकां सुव्यवस्थितां च कर्तुं श्वानाः तेषाम् आकारस्य आधारेण त्रिषु श्रेणीषु विभाजिताः भविष्यन्ति। तासु लघ्वाकाराः, मध्यमाकाराः, विशालाकाराश्च श्वानाः सम्मिलिताः भविष्यन्ति। प्रत्येकस्यां श्रेण्यां प्रतिभागिनां मूल्याङ्कनं भविष्यति तथा उत्कृष्टप्रदर्शनं कृतवन्तः श्वानाः तेषां स्वामिनश्च सम्मानिताः भविष्यन्ति।
अस्य आयोजनस्य विशेषाकर्षणेषु पुलिसडॉगस्क्वॉडस्य सहभागिता अपि भविष्यति। पुलिसस्य प्रशिक्षिताः श्वानाः स्वक्षमतां कौशलञ्च प्रदर्शयिष्यन्ति। पुलिसडॉग्स अपि स्मृतिचिह्नैः प्रमाणपत्रैश्च सम्मानिताः भविष्यन्ति।
डॉगशो इत्यस्य विजेतृभ्यः आकर्षकपुरस्काराः निर्धारिताः सन्ति। “चैम्पियनऑफदशो” इत्यस्मै २१ सहस्ररूप्यकाणां नगदपुरस्कारः, स्मृतिचिह्नं, प्रमाणपत्रञ्च प्रदास्यते। तथा प्रत्येकस्यां श्रेण्यां प्रथमस्थानं प्राप्तवन्ते प्रतिभागिने ११ सहस्ररूप्यकाणि, द्वितीयस्थानप्राप्ताय ५ सहस्ररूप्यकाणि, तृतीयस्थानप्राप्ताय २,५०० रूप्यकाणां नगदपुरस्कारः स्मृतिचिह्नेन प्रमाणपत्रेण च सह प्रदास्यते।
जिलाप्रशासनस्य मतम् अस्ति यत् एतादृशाः आयोजनाः केवलं मनोरञ्जनपर्यन्तं सीमिताः न भवन्ति, अपितु पशुकल्याणे, उत्तरदायिपशुपालने, पशूनां प्रति संवेदनशीलतावर्धने च अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति। प्रशासनस्य आशा अस्ति यत् बहुसंख्यकाः पशुप्रेमिणः अस्मिन् आयोजने सहभागितां करिष्यन्ति तथा च एनं सफलं करिष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani