गतद्वादशवर्षेषु सम्पन्नैः प्रौद्योगिकीय-परिवर्तनैः विकसित-भारतस्य आधारशिला स्थापिताः - डॉ.जितेन्द्रसिंहः
नवदेहली, ३१ मे-मासः (हि.स.)। केन्द्रीय-विज्ञान-प्रौद्योगिकी-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ.जितेन्द्रसिंहः एकस्मिन् कार्यक्रमे उक्तवान् यत् गत-द्वादश-वर्षेषु देशे सम्पन्नैः प्रौद्योगिकीय-परिवर्तनैः वर्षे २०४७ तमे विकसित-भारतस्य दृढा आधारशिला स्
केंद्रीय विज्ञान एवं प्रौद्योगिकी राज्य मंत्री (स्वतंत्र प्रभार) डॉ. जितेंद्र सिंह


नवदेहली, ३१ मे-मासः (हि.स.)। केन्द्रीय-विज्ञान-प्रौद्योगिकी-राज्यमन्त्री (स्वतन्त्र-प्रभारः) डॉ.जितेन्द्रसिंहः एकस्मिन् कार्यक्रमे उक्तवान् यत् गत-द्वादश-वर्षेषु देशे सम्पन्नैः प्रौद्योगिकीय-परिवर्तनैः वर्षे २०४७ तमे विकसित-भारतस्य दृढा आधारशिला स्थापिताऽस्ति। अस्मिन् अवधौ भारतं प्रौद्योगिकी-अनुगामि-राष्ट्रत्वात् अग्रे गत्वा प्रौद्योगिकी-नेतृत्वकर्ता-राष्ट्रत्वेन प्रतिष्ठितम् अभवत्।

डॉ. जितेन्द्रसिंहः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना नेतृत्वे विज्ञानं प्रौद्योगिकी च नीतिनिर्माणस्य केन्द्रस्थाने स्थापिते। तेन न केवलं नवाचारस्य संवर्धनम् अभवत्, अपितु अनुसन्धान-विकास-कार्ययोः अपि नूतना गतिः प्राप्ता।

सः उक्तवान् यत् अद्य भारतम् अन्तरिक्ष-विज्ञानस्य, परमाणु-ऊर्जा-क्षेत्रस्य, क्वाण्टम्-प्रौद्योगिक्याः, कृत्रिम-बुद्धिमत्तायाः, जैव-प्रौद्योगिक्याः तथा स्वच्छ-ऊर्जा-क्षेत्रस्य च क्षेत्रेषु तीव्रगत्या प्रगतिं कुर्वन् अस्ति। एतानि सर्वाणि क्षेत्राणि मिलित्वा भारतस्य प्रौद्योगिकीय-भविष्यस्य निर्माणं कुर्वन्ति तथा च वर्षे २०४७ तमे विकसित-भारत-लक्ष्यस्य सिद्धौ महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति।

सः अवदत् यत् निजी-क्षेत्रस्य सहभागितायाः अनन्तरं भारतस्य अन्तरिक्ष-पारिस्थितिकी-तन्त्रम् (स्पेस-इकोसिस्टम) तीव्रगत्या विकसितम् अस्ति। अन्तरिक्ष-क्षेत्रस्य नवोद्यमाना (स्टार्टअप्स) संख्या कतिपयेभ्यः वर्धमाना अधुना चतुर्शताधिकां जाता अस्ति। क्वाण्टम्-मिशन-अन्तर्गतं भारतेन प्रायः २००० किलोमीटर-दीर्घायाः क्वाण्टम्-सञ्चार-क्षमतायाः लक्ष्यस्य अर्धभागः प्रारम्भिक-वर्षेष्वेव साधितः। एतत् देशस्य वर्धमानायाः प्रौद्योगिकीय-सामर्थ्यस्य प्रमाणम् अस्ति।

डॉ. जितेन्द्रसिंहः उक्तवान् यत् कृत्रिम-बुद्धिमत्ता अद्य शासन-व्यवस्थायां, स्वास्थ्य-सेवायाम्, कृषिक्षेत्रे तथा शिक्षाक्षेत्रे च क्रान्तिकारी-परिवर्तनान् आनयति। भारत-एआई-अभियानस्य माध्यमेन भारतं भविष्यस्य डिजिटल-प्रौद्योगिकी-क्षेत्रे नेतृत्वस्य दिशि अग्रे सरति। सः अवदत् यत् भारतम् अधुना केवलं प्रौद्योगिक्याः उपभोक्ता नास्ति, अपितु नवाचारस्य वैश्विक-केन्द्ररूपेण क्रमशः विकसितं भवति। नवोद्यमानां, पेटेण्ट-सङ्ख्यायाः तथा वैज्ञानिक-अनुसन्धानस्य निरन्तर-वृद्धिः देशस्य नूतनाम् अभिज्ञानं सुदृढं करोति।

Hindusthan Samachar / Divya Ranjan