Enter your Email Address to subscribe to our newsletters

जैसलमेरनगरम्, ३१ मे-मास: (हि.स.)। अमेरिकी राष्ट्रपति-डोनाल्डट्रम्पस्य पुत्री टिफनीट्रम्पः स्वपति माइकलबोलोसेन सह जैसलमेर-नगरं प्राप्तवती। तयोः विमानं जैसलमेर-नागरिक-विमानपत्तने अवतरितम्। तयोः आगमनं दृष्ट्वा विमानपत्तनात् आरभ्य होटलपर्यन्तं प्रमुख-पर्यटन-स्थलेषु च कठोर-सुरक्षा-व्यवस्था कृता।
टिफनी ट्रम्पः तथा माइकलबोलोस: जैसलमेरस्य विश्वप्रसिद्ध-पर्यटन-स्थलानां भ्रमणं करिष्यतः। तयोः प्रवासकाले जैसलमेर-दुर्गः, पटवोः हवेली, गडिसर-तडाग: तथा सम-सैंड-ड्यून्स इत्यादीनां प्रमुख-स्थलानां दर्शनस्य सम्भावना अस्ति। दम्पती प्रसिद्धे सूर्यगढ़-जैसलमेर-होटल-इत्यत्र स्थितौ स्तः। तौ होटल-इत्यस्य विलासपूर्णे आवासे निवसतः, यस्मिन् तिस्र: कक्षाः तथा निजी-तरणतालस्य सुविधा अस्ति।
विमानपत्तने तयोः स्वागताय सुरक्षा-व्यवस्थायां पुलिस-बलं, विशेष-सुरक्षा-बलं तथा अन्य-सुरक्षा-संस्था: नियुक्ताः आसन्। बाह्ये बुलेट-रोधी-वाहनानां समूह: तथा उच्च-सुरक्षा-वाहनानि अपि तिष्ठन्ति स्म। सुरक्षा-व्यवस्थां सुदृढीकर्तुं भारतीय-सेना-वायुसेनयोः वायु-रक्षा-प्रणाली ‘आकाश’ अपि नियुक्ता। अमेरिकी-भारतीय-सुरक्षा-संस्था: पूर्णतया सतर्काः आसन्। सोनार-दुर्गे अन्येषु पर्यटन-स्थलेषु च अतिरिक्त-बलं नियोजितम्।
सूर्यगढ़-जैसलमेर-होटल-इत्यत्र आगमनसमये तयोः पारम्परिक-राजस्थानी-रीत्या स्वागतं कृतम्। लोक-कलाकारैः घूमर-नृत्यादीनां प्रस्तुतीकरणं कृतम् तथा ऊष्ट्रा: पारम्परिक-वस्त्रैः भूषिताः आकर्षणं जाताः।
जैसलमेर-आगमनात् पूर्वं टिफनीट्रम्पः तथा तस्य पतिः शनिवासरे ताजमहलस्य भ्रमणं कृतवन्तौ आस्ताम्। तत्र एकां होरां यावत् स्थित्वा तौ दर्शनं कृतवन्तौ। आगमनात् पूर्वं टिफनीट्रम्पः सामाजिक-माध्यमे “एक्स” इत्यत्र ताजमहलस्य चित्रं साझा कृतवती— “अद्भुतं ताजमहलम्” इति। दम्पती सोमवार-सायंकाले प्रायः चतुर्वादने जैसलमेरात् प्रस्थानं करिष्यतः।
Hindusthan Samachar / Divya Ranjan