आईपीएस राजीवकृष्णः उत्तरप्रदेशस्य पूर्णकालिक-डीजीपी-पदे नियुक्तः
लखनऊनगरम्, ३१ मे-मासः (हि.स.)। उत्तरप्रदेशे प्रायः चतुर्वर्षेभ्यः अनन्तरं पूर्णकालिकः पुलिस-महानिदेशकः (डीजीपी) नियुक्तः। राज्यसर्वकारेण १९९१ तम-वर्षीय-आईपीएस-अधिकारी तथा वर्तमान-कार्यवाहक-आरक्षक-महानिदेशकः राजीवकृष्णः उत्तरप्रदेशस्य पूर्णकालिक-आरक
आईपीएस राजीव कृष्ण की फोटो


जारी आदेश पत्र


लखनऊनगरम्, ३१ मे-मासः (हि.स.)। उत्तरप्रदेशे प्रायः चतुर्वर्षेभ्यः अनन्तरं पूर्णकालिकः पुलिस-महानिदेशकः (डीजीपी) नियुक्तः। राज्यसर्वकारेण १९९१ तम-वर्षीय-आईपीएस-अधिकारी तथा वर्तमान-कार्यवाहक-आरक्षक-महानिदेशकः राजीवकृष्णः उत्तरप्रदेशस्य पूर्णकालिक-आरक्षक-महानिदेशक-पदे नियुक्तः। अस्य नियुक्तेः सम्बन्धी आदेशः रविवासरस्य सायं गृह-विभागस्य अपर-मुख्य-सचिवेन सञ्जयप्रसादेन निर्गतः।

वस्तुतः ११ मे २०२२ दिनाङ्के राज्यसर्वकारेण तत्कालीनः आरक्षक-महानिदेशकः मुकुलगोयलः पदात् अपसारितः आसीत्। ततः प्रभृति: प्रदेशे केवलं कार्यवाहक-आरक्षक-महानिदेशकाः एव नियुक्ताः अभवन्। एतत् विषयम् अधिकृत्य विपक्ष-दलानि निरन्तरं योगी-आदित्यनाथ-सर्वकारम् आलोचयन्ति स्म।

अस्याः नियुक्तेः पूर्वं संघलोकसेवा-आयोगेन २६ मे-दिनाङ्के सम्पन्नायां सभायां १९९०-तम-वर्षीय-आईपीएस-अधिकारिणी रेणुका-मिश्रा, १९९१-तम-वर्षीय-आईपीएस-अधिकारी पीयूष-आनन्दः तथा राजीवकृष्णः इत्येषां नामानि राज्यसर्वकाराय प्रेषितानि आसन्।

एतस्मिन् समूहे शासनस्तरे विमर्शः कृतः। ततः उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः वर्तमान-कार्यवाहक-आरक्षक-महानिदेशकस्य राजीवकृष्णस्य नाम अनुमोद्य तं पूर्णकालिक-आरक्षक-महानिदेशकत्वेन नियोक्तुं स्वीकृतिं प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan