Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ३१ मे-मास: (हि.स.)। उत्तरप्रदेशस्य धार्मिक-नगरे वाराणस्यां शिवभक्तैः लोकमातु: अहिल्याबाई-होल्कर-इत्यस्याः ३०१तम-जयंती-उत्सवः उल्लासपूर्णे वातावरणे आचरितः।
श्री-काशी-विश्वनाथ-धाम्नि अहिल्याबाई-होल्कर-महाभागायाः स्मरणं कृत्वा मंदिर-न्यासेन तस्याः विशाल-प्रतिमायाः विधिवत् आरार्तिकी-पूजनं सम्पन्नम्। श्रद्धालुभिः अपि प्रतिमायां पुष्पार्पणं कृत्वा तां प्रति प्रगाढं श्रद्धाभावं प्रदर्शितम्। धाम्नि सनातन-धर्मे तस्याः अतुल्य-योगदानस्य पुण्य-स्मरणं कृतम्।
अस्मिन् कार्यक्रमे श्री-काशी-विश्वनाथ-मंदिर-न्यासस्य अधिकारी-कर्मचारिणः अपि सहभागं कृतवन्तः।
श्रद्धा-स्मरण-समारोहे वक्तृभिः उक्तं यत् सनातन-लोकचेतनायाः संरक्षणे अहिल्याबाई-होल्कर-महाभागायाः योगदानम् अप्रतिमम् अस्ति। काशी-विश्वनाथ-मंदिरस्य जीर्णोद्धार-इतिहासे तस्याः योगदानं अविस्मरणीयं मन्यते।
न्यासेन उक्तं यत् सः सनातन-धारायाः महापुरुषाणां मातृशक्तिनां च गौरवगाथाः संरक्षितुं, प्रचारयितुं तथा लोक-प्रचलितां कर्तुं कृत-संकल्पः अस्ति।
Hindusthan Samachar / Divya Ranjan